________________
१३६
श्रीदानोपदेशमाला (गा.१८) वेला भूपालसेवायाः, क्षणेनैव भविष्यति । तावदत्रैव तिष्ठाम, इति नृनाह वामनः ॥ १९०॥ तत्रोपविष्टास्ते पूर्वशिक्षितास्तं बभाषिरे । खर्वशाख! वदापूर्वां, कथां कामपि संप्रति ॥ १९१ ॥ खर्वशाख! -हे वामन!। सोऽप्यूचे तानहं वच्मि, प्राक्पुंसां चरिताद्भुताम् । कथां निजानुभूतं वा वृत्तकं क्वास्ति वः स्पृहा ॥ १९२ ।। तेऽप्यूचुश्चरितैघृष्टपृष्टैः किमु चिरन्तनैः ।। किन्तु त्वं वृत्तकं ब्रूहि, येन चित्रीयते जनः ॥ १९३ ॥ ततोऽसौ वामनः प्राह श्रूयतामस्ति भारते । तामलिप्तीपुरी सर्वश्रीणामास्थानमण्डपः ॥ १९४॥ तस्यामृषभदत्तोऽस्ति, श्रेष्ठी वैश्रमणोपमः । सोऽन्यदा व्यवसायार्थं, पद्मिनीखण्डमीयिवान् ॥ १९५ ॥ तत्र सागरदत्तस्य, तनयां प्रियदर्शनाम् । वीरभद्रं निजं पुत्रं, स श्रेष्ठी पर्यणाययत् ॥ १९६ ॥ वीरभद्रस्तया साकं, भोगाननुबभूव सः । निशीथे छद्मना सुप्तामुदजागरयच्च ताम् ॥ १९७ ।। मामुत्पन्नशिरोत्र्तिं मा, खेदयेशेति सावदत् । कस्यागुणेन सा तेऽस्ति, स्वामिंस्त्वद्दोषतोऽजनि ॥ १९८॥ तेन स्वदोषं पृष्टा सा, जगाद प्रियदर्शना । नाथेक्समये केयं तव वक्रोक्तियुक्तिता ॥ १९९ ।। नैवं भूयो विधातेति जल्पन् सोऽरीरमत्प्रियाम् । सुप्तां त्यक्त्वाथ तन्नाथस्ततो देशान्तरं गतः ॥ २० ॥ अत्रान्तरे वामनोऽसावुदतिष्ठत्ससंभ्रमः । ममाधुना राजसेवाक्षणो यातीत्युदीरयन् ॥ २०१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org