________________
१३५
परमान्नदानविषये श्रीजिनदासश्रेष्ठिकथा अनङ्गसुन्दरी चाख्यत् सखि! गौरत्वनामनी । हित्वा मत्प्राणनाथेऽन्यत्सर्वं संगतिमङ्गति ॥ १७८ ॥ तपोनियमदेवार्चातत्परास्तदुपाश्रये । सोदर्य इव तिष्ठन्ति तिस्रस्ताः शीलशालिताः ॥ १७९ ।। अन्यदेशानचन्द्रस्य सदसीदृगभूत्कथा । यदस्मिन् पत्तने साध्व्याः सुव्रताया उपाश्रये ॥ १८० ॥ अस्ति स्त्रीत्रितयं रूपसंपद्रतिविजित्वरम् । सतीव्रतसरित्स्रोत:पवित्रितमहीतलम् ॥ १८१॥ युगलम्॥ आस्तामियं कथा दूरे, यः कश्चिच्चालयेद् व्रतात्। स कोऽपि भूतले नास्ति, यस्ता भाषयितुं प्रभुः ॥ १८२ ॥ अत्रान्तरे धराधीशसभामण्डपमण्डनम् ।। केलिपात्रं कलासत्रं, विद्यते कोऽपि वामनः ॥ १८३॥ तासां व्यावर्णनं तादृग् तत् श्रुत्वा कूणिताननः । कुर्वन्नुर्वीमवज्ञां स, खर्वोऽभाष्यत भूभुजा ॥ १८४ ॥ रे वामन! किमेतासां, चरित्रं चित्रकारणम् । अवजानासि सोऽप्याह प्रतिज्ञां शृणु मे प्रभो! ॥ १८५ ॥ चेदिमा मामजल्पन्तं जल्पयन्त्यबला बलात् । तदा कला कलावत्सु, प्रमाणं मेऽन्यथा न हि ॥ १८६ ॥ तदावज्ञापरै राजलोकैः कतिपयैर्वृतः । सुव्रताव्रतिनीधर्मशालां प्रति चचाल सः ॥ १८७॥ सोऽशिक्षयज्जनान् साध्वीनमस्कारादनन्तरम् । अस्मत्पुरः कथां ब्रूहीति प्रष्टव्योऽहमादरात् ॥ १८८॥ प्रमाणमिति तैरुक्ते, वामनः सुकृतालयम् । गतः श्रीसुव्रतामुख्या, व्रतिनीरानमन्मुदा ॥ १८९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org