________________
१३४
श्रीदानोपदेशमाला (गा.१८) सुव्रताव्रतिनीपार्श्वे, पालयन्त्यौ सतीव्रतम् । सोदरे इव ते प्रीत्या, कुर्वाते धर्ममार्हतम् ॥ १६६ ॥ अथ गोचरचर्यायां साध्वीव्राते गते सति । अकस्मात्सुव्रताऽ श्रौषीद् दारुणं रुदितध्वनिम् ॥ १६७॥ निर्गत्य गणिनी सार्द्रहृदयोपाश्रयाद् बहिः । ददर्श कामिनीमेकां, बाष्पप्लावितभूतलाम् ॥ १६८॥ बभाण गणिनी भद्रे! कासि त्वं कुत आगता । । कथमेकाकिनी केन, हेतुना चात्र रोदिषि ॥ १६९ ॥ साप्यांह तां नमस्कृत्य मातर्वैताढ्यभूभृतः । विद्याधरसुता रत्नप्रभागामिह सप्रिया ॥ १७० ॥ जिनार्चनचिकीः कान्तो मां मुक्त्वा स्नानहेतवे । गतः सोऽद्यापि नायातस्तेन स्वामिनि! रोदिमि ॥ १७१ ॥ स मां विना प्रियो नैव, स्थातुं क्षणमपि क्षमः । चिरं जातं गतस्यास्य, शङ्कते तेन मे मनः ॥ १७२ ॥ सुव्रताप्यब्रवीद् भद्रे! भयं कुरु कुतोऽपि मा । यावदायाति ते कान्तस्तावत्तिष्ठ ममान्तिके ॥ १७३ ॥ संबोध्यैवं गणिन्यासौ, नीत्वा च सुकृताश्रयम् । तृतीया मीलिता साधर्मिकीकृत्य तयोर्द्वयोः ॥ १७४॥ अन्योन्यं वार्तयन्तीभ्यां, ताभ्यां पृष्टा मणिप्रभा । स कीदृगस्ति कान्तस्ते, यं स्मृत्वा सखि! रोदिषि ॥ १७५ ॥ साप्याख्यद् बुद्धिदासाख्यः, सख्यौ! गौरः कलाकलः । सिंहलद्वीपवास्तव्यो, मद्वरः स्मरसुन्दरः ॥ १७६ ॥ मत्प्रिये संवदत्येवमुवाच प्रियदर्शना । बुद्धिदासाभिधा नैव, न तु सिंहलवासता ॥ १७७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org