________________
परमान्नदानविषये श्रीजिनदासश्रेष्ठिकथा नास्मिन् पुरेऽस्मत्संबन्धी कोऽपीत्याकुलिताशया । चिक्षेप दिक्षु चक्षुः स्वं यूथभ्रष्टा मृगीव सा ॥ १५४॥ तदा शरीरचिन्तायै, व्रतिनीभिर्विभूषिताम् । आगच्छन्तीं सुव्रताख्यां, गणिनी सा न्यभालयत् ॥ १५५ ॥ पत्या पटे लिखित्वा या दर्शिता मम ता इमा । व्रतिन्य इति निश्चित्य, सुव्रतामियमानमत् ॥ १५६ ॥ ऊचे च भगवत्यद्य, सिंहलद्वीपसंस्थिताः । जिनेश्वराणां प्रतिमा मद्वाक्येन नमस्कुरु ॥ १५७ ॥ सुव्रताप्यवदद् भद्रे! सिंहलद्वीपतस्तव । सुकृतैकसहायिन्याः, किमागमनकारणम् ॥ १५८॥ सुस्था सती निजं सर्वं, वृत्तं कथयितास्म्यहम् । एवं वदन्तीं तां साध्वी निनाय स्वमुपाश्रयम् ॥ १५९ ॥ तत्र सागरदत्तस्य तनया प्रियदर्शना । तपोधना नमस्यन्ती, ददर्शानङ्गसुन्दरीम् ॥ १६० ॥ साध्व्या सुव्रतया पृष्टा, प्रियदर्शनया च सा । आमूलचूलं स्वोदन्तं, कथयामास तत्पुरः ॥ १६१॥ श्रेष्ठिपुत्र्याथ सा प्रोचे, वीरभद्रकलादिकम् । संवदत्यखिलं किन्तु, तस्यऽवर्णोऽस्ति कीदृशः ॥ १६२ ॥ श्यामवर्णस्तया प्रोचे, श्रेष्ठिपुत्री बभाण ताम् । वर्णस्यैव विसंवादः सखि! ते जीवितेश्वरे ॥ १६३ ॥ सुव्रताप्यवदद्वत्से! तिष्ठात्र सुकृते रता ।। प्रियदर्शनया धर्मभगिन्या सह सुस्थिता ॥ १६४॥ सुव्रतावचसा तत्र, स्थिता सानङ्गसुन्दरी । प्रियदर्शनया तुल्यैर्वात्सल्यैश्चातितोषिता ॥ १६५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org