SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १३२ मुहुर्मुहुः समुच्छाल्यमानो भ्रान्त्वा दिनत्रयम् । पोतः पतित्वा ग्रावाग्रकोटौ घट इवास्फुटत् ॥ १४२॥ भग्ने प्रवहणे पुण्ययोगतोऽनङ्गसुन्दरी । तदा तदीयफलकं प्राप बोधिमिवाङ्गभाक् ॥ १४३॥ लोलकल्लोलमालाभिः प्रेरिता फलके स्थिता । अहोभिः पञ्चभिर्लेभे, तीरं तरुलतान्वितम् ॥ १४४॥ पतिमातृपितृभ्रातृवियोगविधुराशया । ऊर्मिघातक्षुधातृषार्दिता तत्र मुमूर्च्छ सा ॥ १४५ ॥ अत्रान्तरे भ्रमन् कोऽपि, तापसः सकृपाशयः । तां तथास्थां समुत्थाप्य गुर्वन्तिकमुपानयत् ॥ १४६ ॥ सुधामुधाविधायिन्या सोऽप्याश्रमगुरुर्गिरा । तां स्वपुत्रीमिवाश्वास्य, तापसीभ्यः समार्पयत् ॥ १४७॥ शुश्रूष्यमाणा वृद्धाभिस्तापसीभिरहर्निशम् । श्रीदानोपदेशमाला (गा. १८) , Jain Education International तत्रस्था सुस्थिता कालं, कियन्तं सात्यवाहयत् ॥ ४८ ॥ निरीक्ष्यानङ्गसुन्दर्या, रूपं रतिविजित्वरम् । व्रतिनां व्रतभङ्गायात्र स्थिता मा स्म भूदसौ ॥ १४९ ॥ इति ध्यात्वाश्रमगुरुर्गिरा मधुरयाह ताम् । समीपेऽस्त्याश्रमादस्मात् पद्मिनीखण्डपत्तनम् ॥ १५० ॥ युगलम् ॥ तद्वत्सेऽस्मगिरा गच्छ तापसैः सह तत्र च । तवाल्पेनैव कालेन, भर्तुः सङ्गो भविष्यति ॥ १५१ ॥ इत्थं तेन समादिष्टा सापि तापससंयुता । जगाम पद्मिनीखण्डपत्तनासन्न भूमिकाम् ॥ १५२ ॥ न स्पृशामो हलाकृष्टां भुवमित्यभिधाय ते । तामनुज्ञाप्य च स्वीयं, तापसा जग्मुराश्रमम् ॥ १५३॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy