________________
परमान्नदानविषये श्रीजिनदास श्रेष्ठिकथा
तावत्त्वयात्र स्थातव्यं, यावदायाम्यहं पुनः ।
न क्षणं त्वां विना स्थाता, मालतीमिव षट्पदः ॥ १३० ॥ सापि म्लानमुखी प्राह, प्राणेश! तव साधुगीः । श्रुतिं गतापि या मेsसून्, भिनत्ति करपत्रवत् ॥ १३१॥ वज्रादपि कठोरास्मि यन्निशम्येदृशं वचः । एरण्डफलवन्नाथ ! विदीर्णं हृदयं न मे ॥ १३२॥ स भीत इव तामूचे, प्रिये ! मा कोपमुद्वह । केलिरेव कृतः किन्तु त्वां विना यामि न क्वचित् ॥ १३३॥ आश्वास्येति प्रियारत्नं, रत्नाकरनरेश्वरम् । स्वदेशगमनायासौ, सनिर्बन्धं व्यजिज्ञपत् ॥ १३४॥ यदि श्रीतातपादानामादेशः स्यात्तदास्म्यहम् । मदेकपुत्रयोः पित्रोर्मिलनाय व्रजाम्यलम् ॥ १३५ ॥ तन्निशम्य नृपः प्राघूर्णकैर्वसति नो गृहम् । ज्ञात्वेति व्यसृजद् वीरभद्रं निजसुतान्वितम् ॥ १३६ ॥ यशोहसितशङ्खश्रीः, शङ्खं तातं स पूर्ववत् । व्यजिज्ञपदथो तेन, विसृष्टस्तुष्टचेतसा ॥ १३७॥ ततो विसृज्य पूर्लोकं, दानसन्मानपूर्वकम् ।
सप्रियो वीरभद्रोऽब्धौ पोतमारोहति स्म सः ॥ १३८ ॥
यथा शरासनान्मुक्तः, शरो यात्यतिवेगतः । तथाब्धिलोलकल्लोलेरितः पोतोऽचलत्तराम् ॥ १३९॥ यावत्कियन्तमध्वानं, वाहनं समलङ्घयत् । तावत्कल्पान्तकालाभ:, प्रोल्ललास समीरणः ॥ १४० ॥ वातेन तेन संक्षुब्धोऽब्धिर्लोललहरीकरैः ।
वहनं कन्दुकमिव, समन्तादुदलालयत् ॥ १४१॥
Jain Education International
,
For Personal & Private Use Only
१३१
www.jainelibrary.org