SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १३० श्रीदानोपदेशमाला (गा.१८) अतः श्रेष्ठिस्तदर्थं मे, तनया प्रतिगृह्यताम् । संयोगस्त्वनयोर्योग्यो, गङ्गासागरयोरिव ॥ ११९ ।। जगौ जगद्विभुं शङ्खस्त्वं स्वामी सेवकस्त्वहम् । अतो युक्तो न संबन्धः, स च भात्येव तुल्ययोः ॥ १२० ॥ महीशः प्राह हे श्रेष्ठिन्नीदृग्वचनभङ्गिभिः । निषेधयसि किं त्वं मां, सद्यः साध्यं च साधय ॥ १२१ ।। नृपाज्ञामुररीकृत्य, कृत्यवेदी गृहं गतः । वीरभद्राय भूमीन्द्रवचनं स न्यवेदयत् ॥ १२२ ।। शुभे दिने शुभे लग्ने, पाणिग्रहमहोत्सवः । अनङ्गसुन्दरीवीरभद्रयोर्ववृतेऽद्भुतः ॥ १२३ ॥ रत्नाकरधराधीशस्तयोर्योतकपर्वणि । रत्नस्वर्णांशुकग्रामालङ्काराश्वादिकं ददौ ॥ १२४ ॥ अवर्धिष्ट तयोः प्रेम, दिवसे दिवसे तथा । यथा निदर्शनीभूतं, तद् गौरीहरयोरपि ॥ १२५ ।। उपदिश्यार्हतं धर्मं, निसर्गस्वर्गसिद्धिदम् । स तां सुश्राविकां चक्रे, सत्संगः कस्य नो हितः ॥ १२६ ॥ चतुष्प्रकारं श्रीसंघं, जिनेन्द्रप्रतिमामपि । चित्रयित्वा पटे व्यक्तं, स प्रियाया अदर्शयत् ॥ १२७ ॥ प्रेमस्थेमपरीक्षायै, वीरभद्रः परेद्यविः । नानाविधवचोभङ्ग्या , बभाषेऽनङ्गसुन्दरीम् ॥ १२८ ॥ त्वां विहाय प्रिये! नान्यो, वल्लभो* मे तथापि हि । त्वां पृष्ट्वा दुःखिनोः पित्रोमिलनाय प्रयाम्यहम् ॥ १२९ ॥ * एष प्रयोगश्चिन्त्यः, नान्या वल्लभेति समीचीनं प्रतिभाति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy