________________
१२९
परमान्नदानविषये श्रीजिनदासश्रेष्ठिकथा यदि सत्यमिदं तत्त्वं, निजं रूपं प्रदर्शय । येन तारुण्यलावण्यकलाः स्युः सफला मम ॥ १०६ ॥ तयेति गदितो वीरभद्रो रूपमदर्शयत् । सापि संजातरोमाञ्चा, प्रोचे कान्तस्त्वमेव मे ॥ १०७॥ सोऽप्यूचेऽतः परं नाहमेष्यामि भवदन्तिकम् । अयं चार्थस्त्वया प्राप्यः, स्वपितुः श्रुतिकोटरे ॥ १०८ ॥ उपरुध्य यथा शङ्ख, स भूपः साध्यमावयोः । साधयेदिति जल्पित्वा, वीरभद्रोऽगमद् गृहम् ॥ १०९ ।। अनङ्गसुन्दरी सद्यः, समाहूय स्वमातरम् । प्रोचे वरार्थमत्यर्थं खेदितौ पितरौ मया ॥ ११० ॥ अधुना तु वरः श्रेष्ठः, शङ्खश्रेष्ठिसुतो मया । उपलब्धोऽस्ति देयाहं, तस्मै गुणमहाब्धये ॥ १११ ॥ स्वरूपमेतत्तातस्य, निवेद्यं स यथा नृपः । शङ्खमत्यर्थमभ्यर्थ्य, मम कार्य प्रसाधयेत् ॥ ११२ ।। इति तद्वाक्यमाकर्ण्य, राज्ञी प्रमुदिताशया । सुताया वरलाभेनावर्धयत्प्राणवल्लभम् ॥ ११३ ॥ यन्नाथानङ्गसुन्दर्या, सौन्दर्यौदार्यधैर्यवान् । स्वयं परीक्षितो वीरभद्रः शङ्खाङ्गभूर्वरः ॥ ११४॥ राजा प्राह प्रिये! साधु, वत्सया चिन्तितो वरः । मयाप्याकर्णितो लोकाद् गुणरत्ननिधिः स तु ॥ ११५ ।। ततो राज्ञा समाहूय, शङ्खोऽसंख्यवणिग्वृतः । कृतप्रणतिरप्युच्चासनेऽसावुपवेशितः ॥ ११६ ॥ सादरं मेदिनीजानिर्जगाद श्रेष्ठिपुङ्गवम् । तामलिप्त्याः समायातो, युवा कोऽप्यस्ति ते गृहे ॥ ११७॥ स चाश्रावि मया सर्वकलाकौशलवानलम् । सौभाग्यभाग्यभङ्गीभिः, किंकरीकृतमन्मथः ॥ ११८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org