SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १२८ श्रीदानोपदेशमाला (गा.१८) कश्चिद्वैदेशिकस्तामलिप्तीतः शङ्खवेश्मनि । समेतोऽस्ति युवा सोऽपि, गुणैः पुरमरञ्जयत् ॥ ९४ ।। न परिज्ञायते ज्ञातिस्तस्याखिलकलानिधेः । परं तदाकृतिर्वक्ति निष्कलङ्कमलं कुलम् ॥ ९५ ॥ तन्निशम्य विशामीशो, विममर्श स्वमानसे । यदेष योग्यो मत्पुत्र्या विवाहाय वरो वरः ॥ ९६ ॥ यद्येषा पुरुषद्वेषवत्यमुं वृणुते वरम् । तदा प्रजासृजः सृष्टिघटना स्यात्पटीयसी ॥ ९७ ॥ तदैकान्तेऽब्रवीद् वीरभद्रः सोऽनङ्गसुन्दरीम् । भोगान् भोगानिवात्याक्षीर्वयसीदृशि किं सखि! ॥ ९८ ।। सापि प्राह हले! सत्यं भोगाः कस्य न वल्लभाः। परं दुराप एवैकः स्वानुरूपो वरः परः ॥ ९९ ॥ रोहिणीव निशानाथं, पद्मिनीव दिनेश्वरम् । लक्ष्मीरिव मुरारातिं गौरीव वृषवाहनम् ॥ १०० ।। सवित्रीव विधातारं रेवतीवाच्युताग्रजम् । चेल्लभेयाद्भुतं कान्तं पतीयामि तदा मुदा ॥ १०१॥ युग्मम् ॥ नोचितं पतिमद्राक्षमेतावन्तमनेहसम् । अतो वरं मे कौमारव्रतं न कुपतिर्वृतः ॥ १०२॥ परं कदाचिच्चेद् धाता, विधत्ते भवतीं नरम् । तदा प्रवर्त्तते चेतो, विषयेष्वमृतेष्विव ॥ १०३ ॥ वीरभद्रोऽपि तामूचे, चेदेवं स्यात्कदाचन । तथापि पुरुषद्वेषवती नो रंस्यसे नरम् ॥ १०४॥ अनङ्गसुन्दरी वीरमती प्रोवाच हे सखि! । किं मां मिथ्यावचोभङ्ग्या, विप्रतारयसि स्फुटम् ॥ १०५ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy