________________
परमान्नदानविषये श्रीजिनदास श्रेष्ठिकथा
स कथं हि त्वयाज्ञायि, तदुक्तः प्राह तां प्रति । भवतारब्धरागस्य खण्डनादवजग्मुषी ॥ ८२॥ ततः सकौतुका तस्यै, तामदान्नृपकन्यका । सोऽप्यस्यै तन्त्रिकामध्यादुद्धृत्याऽदर्शयत्कचम् ॥ ८३॥ सज्जयित्वा ततो वीणां स्वरतानादिसुन्दराम् । सकलं कलयाञ्चक्रे, रागं निष्कलमप्ययम् ॥ ८४ ॥ अनङ्गसुन्दरी तस्या, वीणावादनकौशलम् । निशम्य हरिणीवासीत् क्षणं व्यामोहिताशया ॥ ८५ ॥ चेतस्यचिन्तयच्चेति धिग्मे जन्मानया विना । हेममुद्रापि सश्रीका रत्नेनैव हि जायते ॥ ८६॥ इन्दुवद् दर्शयामास कलाः सैष यथा यथा । जहारानङ्गसुन्दर्या, मनस्तापं तथा तथा ॥ ८७॥ वीरभद्रोऽपि तां ज्ञात्वा स्वानुरक्तां नृपाङ्गजाम् । अवादीदेकदा शङ्कं तं वृत्तान्तं रहस्यवत् ॥ ८८ ॥ यदहं तात ! विनयवत्या, सह निरन्तरम् । यामि भूमिपते पुत्र्याः, पार्श्वे युवतिरूपभाक् ॥ ८९॥ तत्तात ! भीर्न कर्तव्या, धर्तव्याश्च मुदो हृदि । न कोऽप्यपायो भवतां, भावी प्रत्युत गौरवः ॥ ९० ॥ कदाचनापि भूपो व दातुं प्रार्थयते सुताम् । तदा तदाग्रहादेतन्मन्तव्यं वचनं पितः ! ॥ ९१॥ शङ्खोऽप्युवाच हे वत्स ! विधातव्यं तथा त्वया । यथा मम तवापि स्यात् श्रेयः किं बहुजल्पितैः ॥ ९२ ॥ एकदा संसदासीने रत्नाकरनरेश्वरे ।
सभासदो मुदोपेता, वार्त्तयन्ति स्म ते मिथः ॥ ९३॥
* वो इति युक्तं भाति ।
Jain Education International
For Personal & Private Use Only
१२७
www.jainelibrary.org