SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १२६ श्रीदानोपदेशमाला (गा.१८) शून्यावस्थां च मुषितसर्वस्वाया अशंसयम् । ब्रवीति विरहावस्थां दुःस्थामकथितामपि ॥ ७० ॥ चतुर्भिः कलापकम्॥ तामुपालभतानङ्गसुन्दरी किमिति स्वसः! । चिन्तामणीव संस्थाप्य नानीतेयं मदन्तिके ॥ ७१ ॥ अत्रान्तरेऽवदद्वीरभद्रो नास्त्येव कारणम् । गुरूणां शङ्कया किन्तु नानैषीन्मामिह स्वसा ॥ ७२ ॥ भूपाङ्गजाह हे हजे! सदैतव्यं मदन्तिके । किं नामास्ते च ते वीरभद्रो वीरमतीत्यवक् ॥ ७३ ॥ भूयोऽपि भूपभूरूचे श्रीशङ्खश्रेष्ठिनन्दिनीम् । अन्या अपि कलाः काश्चित् जानीते भगिनी तव ॥ ७४ ॥ साप्याख्यत् क्षितिभृत्पुत्रि! संस्तवात् ज्ञास्यसि स्वयम् । यतः कस्तूरिकामोदः शपथैः किं प्रतीयते ॥ ७५ ॥ तत्कलाकौशलाज्जातप्रमोदा नृपनन्दिनी ।। तया विनयवत्यामा तां सत्कृत्य व्यसर्जयत् ॥ ७६ ।। इन्द्रजालिकवद्वीरभद्रः सहजामात्मनः । रूपं स्वीकृत्य हट्टेऽगात्किमसाध्यं कलावताम् ॥ ७७॥ शङ्खः सस्नेहमाचख्यौ वत्स ! क्वेयच्चिरं स्थितः । यत् खेदितस्तवोदन्तप्रच्छकैः सुहृदां गणैः ॥ ७८॥ कौटिल्यत्वादुवाचासौ, तात! लीलावनेऽगमम् । तन्निशम्य जहर्षेष धूर्तेः को न हि वञ्च्यते ॥ ७९ ॥ पुनस्तयैव रीत्यायं द्वितीयेऽपि दिने गतः । ददर्श वादयन्तीं तां विपञ्ची नृपनन्दिनीम् ॥ ८० ।। स वक्त्रं कुणयन्नाह, सशल्या वल्लकी सखि! । यदमुष्यां मनुष्यस्य केशः क्लेश इवास्ति किम् ॥ ८१॥ १. कौटिल्यवानु० v.। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy