________________
१२५
परमान्नदानविषये श्रीजिनदासश्रेष्ठिकथा यद्येवं तर्हि हे यामे! यामिनीकामुकाननाम् । अनङ्गसुन्दरीं द्रष्टुं, चित्तमुत्कण्ठते मम ॥ ५८॥ हे यामे ! -हे भगिनि ! । विहस्य साह हे बन्धो! द्रष्टव्या सा कथं त्वया । प्रवेशं यत्र बालोऽपि, नाप्नोत्यन्यस्य का कथा ॥ ५९॥ सोऽप्यूचे भग्नि! स्त्रीरूपं, कृत्वायामि त्वया समम् । यद्येवं कुरुषे तत्त्वमेहीत्युक्तः स तत्क्षणात् ॥ ६० ॥ नारीभूतस्तया तत्र निन्येऽथानङ्गसुन्दरी । तां प्राह सखि! कैषेति, पृष्टा सोवाच मत्स्वसा ॥ ६१ ॥ युग्मम् ।। तदा राजाङ्गजा वर्णैर्विचित्रैश्चित्रपट्टके। लिखितुं हंसिकां शोकम्लानवक्त्रां प्रचक्रमे ॥ ६२॥ स्वकलां ज्ञापनायैष तामुवाच वियोगिनी । हंस्यलेखि त्वया त्वस्याः कृतं दृष्ट्यादि नोचितम् ॥ ६३ ॥ सस्मया नृपतेः पुत्री फलकं वर्णकैर्युतम् । तस्यै दत्त्वेत्यवादीत्त्वं समालिख मरालिकाम् ॥ ६४॥ वीरभद्रस्तथावस्थां लिखित्वा हंसिकां ततः । तस्यै प्रदर्शयामास सापि तां वीक्ष्य विस्मिता ॥ ६५ ॥ चित्रकृच्चित्रमालोक्य भावचेष्टाभिरद्भुतम् । नृपाङ्गजा हस्तिनीव निर्मदैवमचिन्तयत् ॥ ६६॥ अहो अस्या मुखं म्लानं हिमप्लुष्टारविन्दवत् । दृष्टिर्जलदमालेव बहुबाष्पाम्बुवर्षिणी ॥ ६७॥ चञ्चूपुटतटं मन्दमन्दोपात्तमृणालकम् । अधः पतदिवावन्यां शिथिलं गलकन्दलम् ॥ ६८ ॥ पक्षयुग्ममनुत्पातक्षमं तद्दिनजातवत् । चिन्तयेव विहस्तायाः पदन्यासः परिस्खलन् ॥ ६९ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org