________________
१२४
शङ्खो बभाण हे वत्स ! न सुष्ठु भवता कृतम् । यतो हितेषु पूज्येषु रोषावेशौ न शस्येते ॥ ४६॥ उक्तं चगुरवस्ताडयन्तोऽपि भवन्ति हितहेतवः । घनाहतानां द्रम्माणां भवत्यक्षरसंक्रमः ॥ ४७॥ अनुशिष्येति तं गेहे नीत्वाच्छादनभोजनैः । सत्कृत्य कृत्यवेदी, सोऽवादीत्प्रेमार्द्रया गिरा ॥ ४८ ॥ वत्स ! स्वच्छमते ! वत्साभावेनात्यन्तदुःखितम् । त्वं मां पुत्रवतां धुर्यं कुरु मद्गृहवासतः ॥ ४९ ॥ कृतार्थय श्रियो भोगैर्भज श्रीमत्सु धुर्यताम् । देहि दानानि दीनेभ्यो यशश्च समुपार्जय ॥ ५० ॥ सोऽकृत्रिमैकमाधुर्यां तस्य वाणीं सुधामिव । निपीय विनयानम्रो, योजिताञ्जलिरब्रवीत् ॥ ५१॥ तात ! प्रमाणमित्युक्त्वा, स शङ्खश्रेष्ठिवेश्मनि । वसन्नानाविनोदेन, रञ्जयामास नागरान् ॥ ५२ ॥ वीरभद्रोऽन्यदोपात्तताम्बूलां भूषणोल्बणाम् । दृष्ट्वा विनयवत्याख्यामाख्यच्छङ्खस्य नन्दिनीम् ॥ ५३ ॥ स्वसः ! क्व गमने वाञ्छा, तवेत्थं तेन भाषिता । सा प्राहात्र पुरे भ्रातः !, श्रीरत्नाकरभूपतिः ॥ ५४॥ तस्यास्ति परमाभीष्टा, तनया विनयान्विता । अनङ्गसुन्दरी रूपनिर्जितानङ्गसुन्दरी ॥ ५५ ॥ पुरुषद्वेषशालिन्यास्तस्याः पार्श्वे निरन्तरम् । प्रयाम्यहं यतः सा मे, द्वितीयमिव जीवितम् ॥ ५६ ॥ कलासु कासु नैपुण्यं श्रयते ते सखी स्वसः ! । इत्युक्ता वीरभद्रेण, वीणाद्यैरिति साभ्यधात् ॥ ५७॥
Jain Education International
श्रीदानोपदेशमाला (गा. १८)
,
For Personal & Private Use Only
www.jainelibrary.org