SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १२३ परमान्नदानविषये श्रीजिनदासश्रेष्ठिकथा एकदा वीरभद्रोऽयं चिन्तयाञ्चकवानिति । किममूभिः कलाभिर्मे गुप्ताभिर्गुरुभीतितः ॥ ३४॥ तदुल्लासविलासाय, यामि देशान्तरं परम् । गुणागुणविभागो हि, तहते नोपसर्पति ॥ ३५ ॥ उक्तं चजो ण णियइ परिभमिउं महिवलयमणेगकोउगाइण्णं । सो कूवददुरो इव सारासारं ण याणेइ ॥ ३६॥ श्रेष्ठिसूर्यामिनीयामयामलेऽथ व्यतीयुषि । छेकोक्तिरञ्जनापूर्वं स रेमे प्रियदर्शनाम् ॥ ३७॥ प्रसुप्तां सुरतश्रान्तां वीरभद्रोऽवगत्य ताम् । जगाम धामतः स्वीयात्पतत्री पञ्जरादिव ॥ ३८॥ प्रातः पतिमपश्यन्ती शुष्यन्ती विरहोष्मणा । सीतेव रामसंत्यक्ता रुरोद प्रियदर्शना ॥ ३९॥ सापृच्छय सुतदुःखेन दुःखितौ श्वशुरौ ततः । पितृवेश्मन्यगाद् यस्मात्कुलस्त्रीणामियं स्थितिः ॥ ४० ॥ सोऽपि गेहाद्विनिर्गत्य गुटिकायाः प्रयोगतः । रूपवर्णपरावृत्तिं कृत्वा नट इवात्मनः ॥ ४१ ॥ कलाकलापव्यापेनानन्दयन्निन्दुवन्नरान् । पुरग्रामादिषु भ्राम्यन्निर्भीको धीरवीरवत् ॥ ४२ ॥ सिंहलद्वीपमासाद्य ययौ रत्नपुरं वरम् । गुणरत्नाकरक्ष्मापगुणरत्नाकरोल्बणम् ॥ ४३॥ कुलकम् ॥ तत्र भ्रमन्नसौ शङ्खश्रेष्ठिनो गुणशालिनः । हट्टे न्यषीदत्पृष्टश्च तेन भद्रागतिः कुतः? ॥ ४४॥ वीरभद्रोऽवदत्तात! तामलिप्तीपुरादहम् । . पित्रा रुषित्वा निर्यातः पर्यटन्नत्र चागतः ॥ ४५ ॥ ॥ ४०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy