SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२२ श्रीदानोपदेशमाला (गा.१८) स तत्र भोजनं कुर्वन्नादरेण रसोत्तरम् । चिरं विलोकयामास तत्पुत्री प्रियदर्शनाम् ॥ २२ ॥ कस्येयं तनयास्तीति ऋषभोक्ता स सागरः । प्राहैषा मे सुता श्रेष्ठिन्! पृच्छ्यते केन हेतुना ॥ २३ ॥ अतो ऋषभदत्ताख्य आचख्यौ श्रेष्ठिपुङ्गवम् । ममास्ति तनयो वीरभद्रो भद्राकृतिः कृती ॥ २४॥ जयन् जयन्तं रूपेण कलाभिः शर्वरीश्वरम् । वाचा वाचस्पतिं वीणावादनेन च नारदम् ॥ २५ ॥ गुटिकानां प्रयोगेण कामरूपाभिधामरम् । आश्चर्यचर्यया चेतो न रञ्जयति कस्य सः ॥ २६॥ युग्मम्॥ गवेषयन्नपि क्वापि नाप्नुयां तद्गुणोचिताम् । कन्यां धन्यामिदानीं तु तद्योग्येयं विलोकिता ॥ २७ ॥ सागरोऽप्यवदत्क्वापि वरो नाप्तः सुतोचितः । अत स्तादनयोर्योगो, गौरीशङ्करयोरिव ॥ २८॥ ऋषभोऽपि वधूप्राप्त्या तुष्टो गत्वा निजां पुरीम् । जन्ययात्रायुतं वीरभद्रं तत्रानयत्पुरे ॥ २९॥ सागरोऽपि वरं वीक्ष्य साक्षादेव दिवस्पतिम् । हर्षात्प्रावेशयत्पुर्यां महोत्सवपुरःसरम् ॥ ३०॥ पाणिग्रहः शुभे लग्ने मङ्गलध्वनिपूर्वकम् । संजज्ञे वीरभद्रस्य, प्रियदर्शनया समम् ॥ ३१॥ हिरण्यरत्नवस्त्राद्यैः सत्कृत्य कृतिनां वरम् । वरं स प्रेषयामास स्वां पुरीं श्रेष्ठी सागरः ॥ ३२॥ सोऽपि स्वपत्तनं गत्वा कलारञ्जितसज्जनः । रममाणस्तया सार्धं निनाय दिवसान् बहून् ॥ ३३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy