________________
१२१
परमान्नदानविषये श्रीजिनदासश्रेष्ठिकथा तत्रानुभूय भूयांसि, सौख्यानि स ततश्च्युतः । जम्बूद्वीपस्यैरवते, काम्पील्ये श्रेष्ठिभूरभूत् ॥ १० ॥ स तत्र सुकृतं कृत्वा, मृत्वा सौख्याच्युतेऽच्युते । देवलोके समृद्ध्याभूच्छक्रसामानिकः सुरः ॥ ११ ॥ ततश्च्युतस्तामलिप्त्यां, पुर्यामृषभदत्तभूः । वीरभद्रोऽजनि युवा, युवतीजनरञ्जनः ॥ १२ ॥ एकदा समये सार्थरचनां विरचय्य सः । श्रेष्ठी ऋषभदत्तोऽगात् पद्मिनीखण्डपत्तनम् ॥ १३॥ सदा कलावदासेव्यो, दुर्गाधीशः प्रसिद्धिमान् । श्रीईशान इवेशानचन्द्रस्तत्रास्ति भूपतिः ॥ १४॥ श्रेष्ठी सागरदत्तोऽपि तस्मिन् वसति सातवान् । यस्यर्द्धिं वीक्ष्य भाषन्ते निर्धनं धनदं जनाः ॥ १५ ॥ यथार्थनामिकास्यास्ति प्रिया जिनमतिः प्रिया । शीलसूर्योदयाद्यस्या, निर्दोषमभवजगत् ॥ १६॥ तयोः सुता चतुःषष्टिकलाकौशलशालिनी । लावण्यपुण्यतारुण्या, द्विधापि प्रियदर्शना ॥ १७॥ श्रेष्ठी ऋषभदत्ताख्यः कुर्वन् पण्यस्य विक्रयम् । हट्टे सागरदत्तस्य समियायान्यदा मुदा ॥ १८॥ तयोः परस्परं प्रीतिरजनिष्ट विशिष्टयोः । यामिनीकामिनीकान्तकैरवारामयोरिव ॥ १९॥ सागरस्तमभाषिष्ट प्रसद्य मम मन्दिरम् । निजागमनकर्पूरपूरैस्त्वमधिवासय ॥ २० ॥ ऋषभेणापि तद्वाक्यममन्दानन्दसुन्दरम् । निशम्य तत्तथा मेने स्वभावोऽयं यतः सताम् ॥ २१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org