SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२० श्रीदानोपदेशमाला (गा.१८) दृष्टान्तगर्भा गाथां प्रथयन्नाह - अरजिणवरस्स जीवं जिणदासेणं पराइ भत्तीए । परमन्नेणं पाराविऊण पत्ताई सुक्खाइं ॥ १८ ॥ ___ व्याख्या- अरजिनवरस्याष्टादशतीर्थंकरस्य, जीवं-चरणधारिणम्, जिनदासेन परया-प्रकृष्टया, भक्त्या-आदरेण, परमान्नेन-क्षीरेय्या, पारयित्वा-पारणं कारयित्वा, सौख्यानि-नरसुरसंभवानि सुखानि, प्राप्तानि-लब्धानीति गाथार्थः ॥ भावार्थः कथानकादवसेयस्तच्चेदम् , जम्बूवृक्षाङ्किते द्वीपे प्राग्विदेहविभूषणम् । पुरं रत्नपुरं नाम पुंरत्नैरस्ति भासुरम् ॥ १॥ यत्र नीलमणीधामतुङ्गशृङ्गाग्रभूमिषु । क्षिपन्ति वदनं दूर्वाभ्रान्त्या रवितुरङ्गमाः ॥ २॥ तत्र श्रीजिनदासाख्यः श्रेष्ठी श्रेष्ठगुणोल्बणः । वासरान् भासुरांश्चक्रे श्रीजिनेश्वरपूजया ॥ ३॥ गाम्भीर्यौदार्यधैर्यादिगुणश्रीभिः स्वतोऽधिकम् । यं मत्वा श्रीपतिः श्रीयुक् हीणोच्चैः कोणमाश्रितः ॥ ४॥ भविष्यदरतीर्थेशजीवो मुनिवरोऽन्यदा । चतुर्मासोपवासान्ते, जिनदासगृहेऽविशत् ॥ ५॥ श्रेष्ठी तमागतं दृष्ट्वा कल्पद्रुमिव जङ्गमम् । उत्थायानन्दितस्वान्तो भक्त्यानमदुवाच च ॥ ६॥ प्रभो! प्रभूतसंभूतक्षैरेय्या दानतो मयि । कृपां कुरु यतः सन्तः प्रार्थितार्थप्रसाधकाः ॥ ७॥ दोषैरदुष्टां क्षैरेयीं तेन दत्तामुपाददे । मुमुक्षुर्मोक्षपद्माक्षीसंगमे दूतिकामिव ॥ ८॥ ततो मुनिवरोऽन्यत्र, गत्वा पारणकं व्यधात् । तेन पुण्येन च श्रेष्ठी, ब्रह्मलोके सुरोऽभवत् ॥ ९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy