________________
सत्पात्रदानदातॄणां महिमाख्यानम्
११९ मनसि-हृदये, सकरुणा अपि-कारुण्यरसरञ्जिता अपि, गुणरत्ननिधाना अपि-कवित्ववक्तृत्वादिकलासेवधयोऽपि, मनुजा-मनुष्या, दानेन विना तृणसमानास्तूलतुल्या भवन्तीति गाथार्थः ॥ सामान्यतो दानस्वरूपमुक्त्वा, सत्पात्रदानप्रभावमाविर्भावयन्नाहजह रयणाणं चिंतारयणं कप्पदुमो जह दुमाणं । तह दाणाणं पउरं सुपत्तदाणं जिणा बिंति ॥ १६ ॥
व्याख्या-यथा रत्नानां वज्र-वैडूर्य-पद्मराग-मसारगल्लहंसगर्भ-पुलक-सौगन्धिक-ज्योतीरस-अञ्जनपुलक-रजत-जातरूपसुभग-अङ्क -स्फटिक-अरिष्ट-(चन्द्रप्रभ)जातीयानां षोडशसंख्यानां मध्ये चिन्तामणिः, द्रुमेषु (वृक्षेषु आम्रादिषु) कल्पद्रुमः-सुरतरुः प्रशस्यः, तथा दानानां मध्ये, सुपात्रदानं प्रवरं-प्रधानं जिनास्तीर्थंकरा, ब्रुवते-कथयन्तीति गाथार्थः ॥ सत्पात्रदानदातॄणां महार्घत्वमाहके के कुपत्तजणदाणदाइणो इह न संति पाणिगणा । ते पुण विरला पत्ते जे णियविहवं पउंजंति ॥१७॥
____ व्याख्या-के के प्राणिगणा-लोकनिकराः, कुपात्रजनदानदायिनो नटभटविटादिनरवितरणप्रगुणा न सन्ति-न विद्यन्तेऽपितु परःशता एवेति भावः । ते पुनर्विरला द्वित्रा एव ये मनुष्या निजविभवं पात्रे प्रयुञ्जते-निवेशयन्तीति ॥ यदुक्तंकोटाकोटिरिहोद्भटाः पटुगुणास्ते कोटिशो लक्षशः, श्रीशाः ख्यातिजुषः सहस्रगुणिताः, शूरास्तथोच्चैःशतम् । वक्तारो दश पञ्च शुद्धतपसः, सप्ताष्टकाः पञ्चषाः, ब्रह्मज्ञाः शुभपात्रदानरसिका, द्वित्राः कलौ स्युर्न वा ॥ १॥ इति गाथार्थः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org