SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ११८ श्रीदानोपदेशमाला (गा. १५) करि तुरग-रथ-पदातिसहितम्, लभन्ते - प्राप्नुवन्ति । चः - समुच्चये, यतः पात्रदानादिह तत्किं यन्न स्यात् । उक्तं चतत्किमपि वस्तुजातं न दृश्यते श्रूयतेऽथवा जगति । सत्पात्रदानमाहात्म्यतः सतां यन्न संभवति ॥ १ ॥ इति गाथार्थः ॥ ऐहिकं सत्पात्रदानफलमुक्त्वा पारलौकिकं सत्पात्रदानफलमाहपरलोए सुररमणीसंभोगसुहाणि अणुहवेऊण । दाणपरा परिपालिय चरणं साहिंति सिद्धिपहं ॥ १३ ॥ व्याख्या-दानपराः-दानप्रवणाः, परलोके देवलोके, सुररमणीसंभोगसुखानि-देवाङ्गनासुरतसौख्यानि, अनुभूय - भुक्त्वा, ततो नरभवेऽवतीर्य चरणं चारित्रम्, परिपाल्य - सम्यगाराध्य, सिद्धिपथंमुक्तिमार्गम्, साधयन्ति - स्वकरतलशयालुतां प्रापयन्तीति गाथार्थः ॥ दानदातॄणामुत्कर्षं प्रख्यापयन्नाह जे माणदुद्धरमणा कस्स वि सीसं णियं ण मं । ते वि हु दाणपराणं चाडुयवयणाणि भासंति ॥ १४ ॥ - - व्याख्या - ये पुरुषा मानदुर्धरमनसोऽहङ्कारोद्रिक्तचित्ताः कस्यापि निजं - स्वकीयम्, शीर्षं - मूर्धानम्, न नामयन्ति मनागपि नावनतीकुर्वन्ति, तेऽपि नराः खु- निश्चितम् दानपराणां दानशौण्डानाम्, चाटुकवचनानितत्कुलादिगुणव्यावर्णनख्यानि, भाषन्ते - जल्पन्तीति गाथार्थः ॥ Jain Education International अदातॄणामिहलोकेऽपि लाघवमाह माणंसिणो वि धणसालिणो वि मणुया मणे सकरुणावि । अवि गुणरयणनिहाणा, दाणेण विणा तिणसमाणा ॥ १५ ॥ व्याख्या-आस्तां तावच्छठा अपितु मनस्विनोऽपि -परचित्ताभिप्रायवेदिनोऽपि, धनशालिनोऽपि - वैभवाभिभूतवैश्रवणा अपि, For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy