________________
११६
श्रीदानोपदेशमाला (गा. ११)
क्रमाद्विमुक्तसर्वाङ्गविभूषणगणां तनूम् । निःश्रीकां भरतोऽद्राक्षीद् दिवा शशिकलामिव ॥ ३२६॥ अचिन्तयच्च धिगहो वपुषो भूषणैः प्रभाम् । तस्मादस्मिन्नसारेऽङ्गे को रज्यति विवेकवान् ॥ ३२७॥ सप्तधातुमयस्यास्य, सबाह्याभ्यन्तराशुचेः । देहस्य चिन्त्यमानं हि न हारि किमपीक्ष्यते ॥ ३२८ ॥ अमुष्याङ्गस्य संसर्गाच्चन्दनादिविलेपनम् । क्षणान्मलिनतामेति मषीमेलादिवोदकम् ॥ ३२९ ॥ धन्यास्ते बान्धवा भोगान् रोगानिव विहाय यैः I निरपेक्षतयाङ्गस्य तेपे सिद्धिफलं तपः ॥ ३३० ॥ मया तु भोगातृप्तेन प्रमादेनातिदुर्लभम् । चिन्तारत्नमिव प्राप्तं नरत्वं हारितं हहा ॥ ३३१॥ इत्थं विचिन्तयन् सम्यगपूर्वकरणक्रमात् ।
क्षपक श्रेणिमारूढः शुक्लध्यानपरायणः ॥ ३३२॥ घातिकर्मक्षयात् प्राप केवलं भरतेश्वरः ।
प्रकाशं वासराधीशः पर्जन्यापगमादिव ॥ ३३३॥ युग्मम् ॥ अथासनप्रकम्पेन, दत्तावधिर्ऋभुप्रभुः ।
चक्रिणः केवलज्ञानोत्सवं कर्तुमुपागमत् ॥ ३३४॥ ऋभुप्रभुः-देवेन्द्रः ।
ऊचे चर्षभपुत्रत्वात्केवलित्वाच्च यद्यपि ।
नमस्योऽसि तथापि त्वं द्रव्यलिङ्गमलङ्कुरु ॥ ३३५ ॥ ततः श्रीभरतो बाहुबलिवत् पञ्चमुष्टिकम् । लोचं चकार प्रव्रज्यासूचकं क्लेशमोचकम् ॥ ३३६॥ तदा शासनदेव्याशूपकृतिं समुपाहृताम् । रजोहृतिप्रभृतिकीं जग्राह भरतो जिनः ॥ ३३७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org