SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सप्तक्षेत्रीदानविषये श्रीभरतचक्रिकथा तीर्थरक्षाकृते यन्त्रप्रयोगास्तेन तेनिरे । दण्डेन दन्तकांश्छित्त्वाकारि दुःसरो गिरिः ॥ ३१४॥ मेखलाष्टकयुक्तोऽसौ यच्चक्रे चक्रवर्त्तिना । ततोऽष्टापद इत्याख्या जगत्यामस्य गीयते ॥ ३१५ ॥ तन्मूर्तीनां नमस्कारस्नपनार्चनसंस्तुतीः ।। कृत्वा प्रमोदवांश्चक्री विनीतानगरीमगात् ॥ ३१६ ।। स्वामिनिर्वाणतः पूर्वपञ्चलक्षीं व्यतीयुषीम् । नाज्ञासीद् भरतो भोगाभोगयोगैः सुरेन्द्रवत् ॥ ३१७ ।। एकदा विहितस्नानः कृतश्रीखण्डलेपनः । धूपधूपितवासांसि संवसानो मृदूनि सः ॥ ३१८॥ मौलौ मौलिमलं बिभ्रत् कर्णयोर्मणिकुण्डले । ग्रैवेयकमधिग्रीवं तारं हारमुर:स्थले ॥ ३१९ ।। बाहुभूषायुगं बाह्वोः करयोर्वीरकङ्कणान् । अङ्गलीष्वङ्गलीयानि पदोश्च पदभूषणे ॥ ३२० ॥ चतुःषष्टिसहस्रान्तःपुरीभिः परितो वृतः । वेत्रिणा दर्श्यमानाध्वा राजादर्शगृहं ययौ ॥ ३२१॥ चतुर्भिः कलापकम्॥ तत्र संक्रान्तसर्वाङ्गोपाङ्गस्य क्षितिशासितुः । अङ्गलीयकमङ्गल्या एकस्या अपतद् भुवि ॥ ३२२॥ वापीमिव गताम्भोजां भ्रष्टपत्रां लतामिव । अङ्गलीमङ्गलीयेन विनापश्यत्स निष्प्रभाम् ॥ ३२३ ॥ किमित्येषाङ्गली शोभारहितेति विचिन्तयन् । अपश्यत्काश्यपीपीठेऽङ्गुलीयं पतितं नृपः ॥ ३२४॥ निःश्रीकाणि किमङ्गान्यन्यान्यप्याभरणैर्विना । इति मोक्तुमलङ्कारान् सर्वानप्युपचक्रमे ॥ ३२५ ।। * इदं चरणं सर्वप्रतिषु सप्ताक्षरीयमेव दृश्यते । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy