________________
११४
श्रीदानोपदेशमाला (गा.११) स्वाम्याह विद्यते वत्स! मरीचिस्तव नन्दनः । त्यक्तव्रतस्त्रिदण्ड्याद्योऽर्धचक्री पोतने पुरे ॥ ३०२ ।। प्रत्यग्विदेहे मूकाग्रविदेहापुरि चक्रभृत् । भरतेऽस्मिन्नेव भावी श्रीवीरश्चरमो जिनः ॥३०३॥ युग्मम् ॥ इत्याकर्ण्य स उत्थाय, मरीचेः सविधं गतः । भोस्त्रिदण्डिन्न ते वेषं, न व्रतं नार्धचक्रिताम् ॥ ३०४ ।। न चक्रित्वं च वन्देऽहं किंतु यत् त्वं जिनोऽन्तिमः । भावी श्रीवीर इत्युक्त्वा तं नत्वा चक्रयगाद् गृहम् ॥ ३०५ ।। मरीचिरपि तच्छ्रुत्वो/कृत्य भुजयामलम् । नृत्यन्नित्थमभाषिष्ट जिनेष्वाद्यः पितामहः ॥ ३०६ ।। चक्रिष्वाद्यः पिताहं तु वासुदेवेषु चक्रयपि । जिनेषु चरमश्चाहो! मदीयं कुलमुत्तमम् ॥ ३०७ ॥ इति मदान्नीचैर्गोत्रं, बद्धं कर्म मरीचिना । उपाय॑तासंख्यकालवेद्यं गर्वो हि दुर्वहः ॥ ३०८ ॥ अन्यदा भरतश्चक्री श्रीनाभेयजिनेशितुः ।। निर्वाणस्थानकाभ्यर्णेऽष्टापदाद्रौ समागतः ॥ ३०९ ॥ श्रीमद्वर्धकिरत्नेन चतुर्गव्यूतिविस्तरम् । क्रोशत्रयसमुच्छ्रायं सर्वरत्नशिलामयम् ॥ ३१० ॥ निजश्रियाहसदिव स्वर्विमानपरंपराम् । चैत्यं सिंहनिषद्याख्यं कारयामास चक्रभृत् ॥ ३११॥ कुलकम् ॥ स तदन्तर्निजनिजोच्चत्ववर्णाङ्कलक्षिताः । चतुर्विंशतिदेवानां मूर्ती रानीर्यवेशयत् ॥ ३१२ ।। तदने नवनवतिभ्रातृमूर्तीरकारयत् । तासां पुरश्च स्वां मूर्ति भरतस्तदुपासिकाम् ॥ ३१३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org