________________
११३
सप्तक्षेत्रीदानविषये श्रीभरतचक्रिकथा जिनं नत्वाद्भुतामृद्धिं प्रभोर्वीक्ष्य क्षमाप्रभुः । पप्रच्छ त्वादृशोऽर्हन्तो मादृशाश्चक्रिणः कति ॥ २९० ॥ भविष्यन्त्यवसर्पिर्ध्या ततः प्राह प्रभुनूप! । अजितः संभवोऽभ्यग्रनन्दनः सुमतिर्जिनः ॥ २९१ ।। पद्मप्रभः सुपार्श्वश्च श्रीमांश्चन्द्रप्रभः प्रभुः । सुविधिः शीतलः श्रेयान् वासुपूज्यजिनेश्वरः ॥ २९२ ।। विमलोऽनन्तजिद्धर्मः शान्तिः कुन्थुररो जिनः । श्रीमल्लिः सुव्रतनमी श्रीनेमिः पार्श्वपारगः ॥ २९३ ।। श्रीवीरश्चेति विख्यातास्त्रयोविंशतितीर्थपाः । यथावद्वर्णमानकोपेता मत्सदृशद्धयः ॥ २९४ ॥ पञ्चभिः कुलकम् ॥ सगरो मघवा सनत्कुमारः शान्तिकुन्थ्वराः । सुभूमः पद्महरिषेणौ जयो ब्रह्मदत्तराट् ॥ २९५ ।। इत्येकादश षटखण्डभरतेशा भवत्समाः । भवितारोऽपरांश्चार्धचक्रयादीन् भूपते! शृणु ॥ २९६ ।। त्रिद्विपृष्ठौ स्वयंभूश्च पुरुषोत्तमसिंहकौ । . श्रीपुरुषपुण्डरीको दत्तो नारायणो हरिः ॥ २९७ ॥ अचलो विजयो भद्रः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मो रामो विष्णुद्विषस्त्वमी ॥ २९८ ॥ अश्वग्रीवस्तारकश्च, मेरुकोवधिरोपि च । निशुम्भबलिप्रह्लादलङ्केशमगधेश्वराः ॥ २९९ ॥ इत्थं दशार्हा हलिनस्तद्विषश्च नवप्रमाः । भरतार्धे भविष्यन्ति शलाकापुरुषास्त्वमी ॥ ३०० ॥ इति श्रुत्वा प्रभोर्वाणी पुनरप्याह चक्रभृत् । नाथ! कोऽपि समाजेऽस्मिन्नर्हज्जीवोऽस्ति वा नवा ॥ ३०१॥ * मेरको मधुरोऽपि च इति पाठः समीचीनो भाति । तुलना-अभिधानचिन्तामणिनाममाला । ३६९९ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org