SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११२ प्रमद्वरोऽपि तद्वाक्ये, श्रवणातिथिताङ्गते । सोऽक्षेपं भरतो दध्यावसंबद्धमिदं हि किम् ॥ २७८ ॥ हुं ज्ञातं विषयैर्जिग्ये, वर्धते तत एव भीः । मा हन्यां प्राणिनस्तस्मात्साधु भोः स्मारितोऽस्म्यहम् ॥ २७९॥ इत्थं श्राद्धान् प्रकुर्वाणान् भुञ्जानांश्च नृपौकसि । वीक्ष्यापरेऽप्यौदरिका भूयांसस्तैः सहामिलन् ॥ २८० ॥ तद्भोजनकृतौ श्रान्ताः सूदा श्रीभरतं जगुः । स्वामिन्! सत्यैरसत्यैर्वा श्राद्धैरुद्वेजिता वयम् ॥ २८१ ॥ तच्छ्रुत्वा भरतः श्राद्धानाकार्य च परीक्ष्य च । काकिणीरेखया शुद्धश्राद्धोरस्त्रिरलाञ्छयत् ॥ २८२ ॥ प्रतिषण्मासि भूशक्रो व्रताद्यैस्तान् विमृश्य सः I काकिणीनामरत्नेनालाञ्छयत् त्रिरुपासकान् ॥ २८३ ॥ जिनस्तुतियति श्राद्धसामाचारीनिवेदकान् । तत्स्वाध्यायकृते चक्री वेदानार्यांश्चकार सः ॥ २८४॥ ते माहनाः क्रमादत्र विश्रुता ब्राह्मणा इति । काकिणीरत्नरेखाश्च गता यज्ञोपवीतताम् ॥ २८५ ॥ क्रमाद् भरतसन्तानभवादित्ययशोमुखैः । रैरूप्यसूत्रनिर्वृत्तोपवीतैस्ते च लाञ्छिताः ॥ २८६ ॥ वीतरागस्तुतियति श्राद्धधर्मपवित्रिताः । वेदाः पश्चाद्याज्ञवल्क्याद्यैरनार्या विनिर्मिताः ॥ २८७॥ दानं ददानः श्राद्धेभ्यो विदधद् जिनपूजनम् । श्रीदानोपदेशमाला (गा. ११) भुञ्जानो भङ्गुरान् भोगांश्चान्वशाद् भरतः प्रजाम् ॥ २८८ ॥ युगादिदेवमन्येद्युरायातं स्फटिकाचले । निशम्य भरतो नन्तुं जगाम सपरिच्छदः ॥ २८९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy