________________
१११
सप्तक्षेत्रीदानविषये श्रीभरतचक्रिकथा अधन्यानां शिरोरत्नमहमेव महीतले । यस्यान्नमात्रमपि नोपकरोति महात्मनाम् ॥ २६६ ॥ एवं विषादविधुरं भरतं वीक्ष्य वासवः । प्रणामपूर्वमप्राक्षीद् भगवन्तमवग्रहान् ॥ २६७ ॥ प्रभुः प्राहावग्रहाः स्युः पञ्चधा विबुधाधिप! । शक्रचक्रिनृपागारिसाधुसंबन्धभेदतः ॥ २६८ ॥ एतेष्वद्भुतपुण्येषु बाध्यन्ते पूर्व उत्तरैः ।। इत्युक्ते स्वामिना शक्रः कृताञ्जलिपुटो जगौ ॥ २६९ ॥ लोकाः दक्षिणे नाथ! ये सन्ति यतिसत्तमाः । अहं ताननुजानामि निजावग्रहदानतः ॥ २७० ॥ इत्युक्त्वा विरते शक्रे भरतश्चक्रवर्त्यपि । भरतावग्रहानुज्ञां तातान्ते व्रतिनां ददौ ॥ २७१ ॥ सधर्मचारिणं शक्रं पप्रच्छ भरतेश्वरः । मुनिमुक्तैरिमैर्भोज्यैः किं करोमि सुरेश्वर! ॥ २७२ ।। सोऽप्याहोत्तमपात्रेभ्यो देहीति गदितो नृपः । साधून् विहाय कान्यत्र पात्राण्येवमचिन्तयत् ॥ २७३ ॥ आ ज्ञातं सन्ति मत्पुर्यां श्रमणोपासका जनाः । अतस्तेषु नियोज्यैतत् सुकृतान्यर्जयाम्यहम् ॥ २७४ ।। श्रीयुगादिजिनं नत्वा भरतो नगरी गतः । वासनावासितस्वान्तः, श्राद्धान् भोज्यैरभोजयत् ॥ २७५ ॥ तानुक्तवांश्च यन्नित्यं भोक्तव्यं मम भोजनम् । प्रतिप्रातः समेत्यैवं पठनीयं च मत्पुरः ॥ २७६ ॥ जितो भवान् वर्धते भीस्तस्मान्मा हन मा हन । प्रपद्येति तथाचक्रुः श्राद्धाः स्वाध्यायतत्पराः ॥ २७७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org