________________
१०२
सप्तक्षेत्रीदानविषये श्रीभरतचक्रिकथा शीतोष्णवातवर्षादीन्, सहमानः परीषहान् । अकम्पिताङ्गो भगवांस्तस्थिवान् सानुमानिव ॥ २४२ ॥ वल्लीभिर्वेष्टितो दर्भाङ्करैर्विद्धपदद्वयः । नीडजैश्च कृतावासो नाचलत्तपसो मुनिः ॥ २४३ ॥ निराहारोऽपि राजर्षिर्वर्षं यावदवस्थितः । न प्राप केवलज्ञानमहो मानविजृम्भितम् ॥ २४४ ।। . अथ प्रथमतीर्थेश: शिष्ये ब्राह्मीं च सुन्दरीम् । श्रीबाहुबलिबोधायानुशिष्य प्राहिणोल्लघु ॥ २४५ ।। ते व्रतिन्यौ मुनेः पार्श्व गत्वा तमभिनम्य च । प्रोचतुर्कीतरारूडैरिभं न ज्ञानमाप्यते ॥ २४६ ।। इत्युदित्वा गते साध्व्यौ यथास्थानं ततो यतिः । तद्वाक्यं चिन्तयामास परमब्रह्म योगिवत् ॥ २४७ ॥ चरणस्थायिनो मेऽद्य त्यक्तसावद्यकर्मणः । क्व गजारोहणं साध्व्यौ चेमे नासत्यजल्पिके ॥ २४८ ॥ आ ज्ञातं यन्मयाचिन्ति लघून् बन्धून् मुनीन् कथम् । वन्दिष्य इत्यहं जाने मानेभारोहणं हि तत् ॥ २४९ ॥ दुश्चिन्तितमिदं गत्वाधुनापि क्षमयाम्यहम् । इति ध्यात्वा पदं यावदुदस्थापयदार्षभिः ॥ २५० ॥ तावद् व्रततिवद् घातिकर्मसु त्रुटितेष्वथ । श्रीबाहुबलिराजर्षेरभूत्केवलमुज्ज्वलम् ॥ २५१ ।। उत्पन्नकेवलज्ञानविलोकितजगत्त्रयः । सौनन्देयोऽर्हतः पार्श्वे, जगामेन्दू रवेरिव ॥ २५२ ॥ प्रभुं प्रदक्षिणीकृत्य तीर्थाय प्रणिपत्य च । पर्षदं केवलज्ञानभाजां बाहुबलिः श्रितः ॥ २५३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org