________________
१०७
सप्तक्षेत्रीदानविषये श्रीभरतचक्रिकथा तत्प्रहारेण भूमध्येऽमजदाजानु चानुजः । ततश्च निर्गतो रेजेतमामभ्रादिवार्यमा ॥ २१८ ॥ सौनन्देयोऽपि दण्डेन यमलाममलं वहन् । रुषारुणेक्षणो मूर्ध्नि जघान भरतेश्वरम् ॥ २१९ ॥ तद्दण्डस्याभिघातेन भरतः पृथिवीतले । क्षणादमज्जदाकण्ठपीठं निर्घातगोलवत् ॥ २२० ॥ मूर्छाया विगमे भूमेः क्षणेन भरतेश्वरः । निःससार सरिन्नाथादिव कैरविणीपतिः ॥ २२१ ॥ अथोद्विग्नमनाश्चक्री चेतसीति व्यचिन्तयत् । जितोऽमुनाखिलैर्युद्धैः किं चक्री न भवाम्यहम् ॥ २२२ ॥ तदा तदीयविज्ञातस्वान्तैर्यक्षकदम्बकैः । सूर्यमण्डलवद् दीप्तं चक्रं चक्रिकरेऽर्पितम् ॥ २२३ ॥ चक्रं चक्रभृता मुच्यमानं वीक्ष्यर्षभाङ्गभूः । दध्यौ किमेतद् दण्डेनाङ्गारवच्चूर्णयाम्यहम् ॥ २२४ ॥ यद्वास्य रक्षकान् यक्षान् दलयामि किमब्जवत् । अथवास्यापि पश्यामि, क्षणमेकं पराक्रमम् ॥ २२५ ॥ युग्मम् ॥ एवं विमृशते तस्मै चक्रिणा चक्रमुज्झितम् । प्रदक्षिणां चकाराशु सुश्रावक इवार्हतः ॥ २२६ ॥ प्रभविष्णु न चक्रं हि सामान्येऽपि स्वगोत्रजे । किं पुनस्तादृशे शूरे चरमाङ्गधरे नरे ॥ २२७ ।। प्रतिज्ञायाशस्त्रयुद्धं मयि शस्त्रविवर्जिते । . त्यक्तसन्धो राज्यलुब्धश्चक्रं चक्री मुमोच यत् ॥ २२८॥ चक्रिपाणिं गते चक्रे तुरङ्ग इव मन्दुराम् । सुनन्दानन्दनः कोपादिति चेतस्यचिन्तयत् ॥ २२९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org