SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १०६ तत्स्पर्धया सिंहनादे सौनन्देयेन निर्मिते । चुक्षुभुर्वार्द्धयः कम्पमापतुः शेषकूर्मकौ ॥ २०६॥ देवाङ्गना भयभ्रान्ता मुमूर्च्छः कातराः पुनः । भेजुर्देवा दिगन्तानि साचलापि चलाचला ॥ २०७॥ एवं कुर्वाणयोः सिंहनादान् वादजिगीषया । चक्रिवाक्तटिनी मग्ना बहलीशरवार्णवे ॥ २०८॥ उक्तिप्रत्युक्तियुक्तेन वाग्युद्धेन विपश्चिता । श्रीबाहुबलिवीरेण विजिग्ये भरतेश्वरः ॥ २०९ ॥ अथ तौ बाहुयुद्धेन युध्यमानौ गजाविव । निरीक्ष्य केषां वीराणां निरगालि मदेन न ॥ २१० ॥ चक्री बाहुबलेर्बाहौ लग्नः कपितुलां ललौ । सौनन्देयश्च तद्दोसं मृणालवदनामयत् ॥ २११॥ श्रीबाहुबलिना बाहुयुधा भरतचक्रयपि । जिग्येतमां यत्तदहो रणस्य विषमा गतिः ॥ २१२ ॥ नियुद्धेऽथ समारब्धे मुष्टिना भरतेश्वरः । बन्धोरताडयद्वक्षः शिशुः कन्दुकवद् भुवम् ॥ २१३ ॥ श्रीबाहुबलिना मुष्ट्या ताडितो हृदि मूर्च्छितः । चक्री पपात भूपीठे छिन्नमूल इव द्रुमः ॥ २१४॥ सौनन्देयः स्वोत्तरीयं व्यजनीकृत्य मूर्च्छितम् । चक्रिणं वीजयाञ्चक्रे स्नेहस्याहो विजृम्भितम् ॥ २१५ ॥ भरतः प्राप्तचैतन्यो भृत्यवद् भ्रातरं पुरः । निरीक्ष्याधोमुखस्तस्थौ महतां हि स्वतस्त्रपा ॥ २१६ ॥ कोपात्पुनर्नवीभूतो दण्डरत्नेन चक्रभृत् । निष्कृपोऽहन् शिरो भ्रातुरहो लोभविजृम्भितम् ॥ २१७ ॥ श्रीदानोपदेशमाला (गा. ११) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy