________________
१०५
सप्तक्षेत्रीदानविषये श्रीभरतचक्रिकथा इत्यादि देवं संस्तूय कुञ्जरौ राजकुञ्जरौ । आरुह्यासह्यविक्रान्ती स्वं स्वं शिबिरमेयतुः ॥ १९४ ॥ तौ बन्धू स्वस्वसैन्येन यावद् योद्धं समुद्यतौ । तावद् व्योमस्थिता देवा इत्यूचुर्जयवादिनः ॥ १९५ ॥ हंहो न युज्यते योद्धं युवयोः स्वामिपुत्रयोः । तदयं समरारम्भस्त्याज्यः प्राज्यजनान्तकृत् ॥ १९६ ॥ अथवा राज्यलुब्धौ चेत्तदा युद्धं निरायुधम् ।। दृगाद्यैः कुरुतं येन कार्यसिद्धिर्न नृक्षयः ॥ १९७ ॥
ओमित्यङ्गीकृते ताभ्यां ततो देवा दिवि स्थिताः । दूरीभूय तयोर्युद्धं विलोकयितुमुद्यताः ॥ १९८॥ कुञ्जरादवरुह्याथ तावुभौ राजकुञ्जरौ । मल्लाविवाप्रतिमल्लौ प्रविष्टौ समराजिरम् ॥ १९९ ॥ उभावपि महौजस्को कम्पयन्तौ महीं क्रमैः । दृष्टियुद्धेन योद्धव्यमित्युक्त्वा संमुखं स्थितौ ॥ २०० ॥ तौ बन्धू निर्निमेषाक्षौ सौधर्मेशानराजयोः । लीला ललन्तौ लेखैश्च पुरुषैश्च निरीक्षितौ ॥ २०१॥ श्रीबाहुबलिवोन्दोः प्राप्येवोदयमार्षभेः । आद्यस्य नयनाम्भोजं संकोचं श्रागशिश्रियत् ॥ २०२॥ पुष्पवृष्टिः सुरैश्चक्रे दृष्ट्वा बाहुबलेर्जयम् । सोमप्रभादिभिवीरैर्हर्षकोलाहलस्तथा ॥ २०३ ॥ बलिना बाहुबलिना निर्जिते भरते सति । सूर्यापाय इवाम्भोजैर्निदद्रे चक्रिसैनिकैः ॥ २०४॥ पुनस्ताभ्यां वचोयुद्धेऽन्योन्यमङ्गीकृते सति । ततश्चक्री चकारोच्चैः श्वेडां जितघनारवाम् ॥ २०५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org