________________
१०४
श्रीदानोपदेशमाला (गा.११) कुमारैर्मन्त्रिभिर्भूपैः सुभटैरुद्भटैरपि । समन्तात्परिवरोऽसौ कलभैरिव यूथपः ॥ १८२ ॥ सुनन्दानन्दनश्चक्रिपृतनासविधे निजम् ।। कटकं स्थापयामास संपासंपातभं द्विषाम् ॥ १८३ ।। चमूयामलयोद्धानां युयुत्सूनां परस्परम् । कथंचन त्रियामापि कोटियामाजनि ध्रुवम् ॥ १८४ ॥ उदयाद्रिं गते भानौ सैन्ययोरुभयोरपि । रणतूर्यध्वनिरभूदुत्साह इव जङ्गमः ॥ १८५॥ कल्पान्तकालसंक्षुब्धदुग्धाब्धिध्वानसंनिभाः । उल्लेसुर्वरवीराणां सिंहनादाः परस्परम् ॥ १८६ ॥ उदायुधा महायोधा युद्धमाधातुमुद्यताः । यावत्तावत्सुरै रुद्धाः श्रीनाभेयजिनाज्ञया ॥ १८७ ॥ स्वस्वामिभक्ता हे वीरास्तावत्तिष्ठत सुस्थिताः । बोधयामस्तमां यावद्वयं भवदधीश्वरौ ॥ १८८॥ इतीरिताः सुरैर्वीरास्तथैवास्थुस्तयाज्ञया । जाङ्गुलीविद्यया बाढं स्तम्भिता भुजगा इव ॥ १८९ ।। अथ श्रीभरतो बाहुबलिश्च भ्रातराविमौ । विहितस्नाननेपथ्यौ जिनमाराद्धमुद्यतौ ॥ १९०॥ गन्धधूपाक्षतसुमदीपामिषफलाम्बुभिः । युगादिदेवमर्चित्वा तुष्टौ तुष्टुवतुर्नुपौ ॥ १९१ ॥ जयादिमजिनाधीश! जय विश्वैकवत्सल! । जय वन्दारुदेवेन्द्र! जय संसारपारग! ॥ १९२॥ तात! त्वदंहिरजसा, भालं तिलकयन्ति ये । मन्ये त्रिलोकीतिलकीभावं भव्या भजन्ति ते ॥ १९३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org