________________
सप्तक्षेत्रीदानविषये श्रीभरतचक्रिकथा
१०३ तथैव तव नाथेन दूत! त्वत्प्रेषणान्मयि । प्रेम प्रथयता सत्यं दुर्जनोपमताश्रिता ॥ १७० ॥ सेन्द्रा देवगणा यस्यादरं ददति संमदात् । तत्तातस्यैव माहात्म्यं न तु तस्य त्वदीशितुः ॥ १७१॥ आवयोः सरयूतीरे ताताग्रे क्रीडतोर्मिथः । यदरे दूत! भरतः प्रत्यक्षं घुसदां मया ॥ १७२ ॥ उत्क्षिप्य नभसोऽधस्तानिपतन् करकुड्मले । धृतः कृपालुना तत्किं विस्मृतं भवदीशितुः ॥ १७३॥ युग्मम् ॥ किं सेनान्या समृद्ध्या किं, किं चम्वा च बिभेषि माम् । मयि रुष्टेऽखिलं ह्येतदन्तरिक्षारविन्दवत् ॥ १७४ ॥ तातस्य तस्य पुत्रत्वादियत्कालमुपेक्षितः । यन्मया दूत! तेनाभूद् भरतो भरताधिपः ॥ १७५ ॥ तद् दूत! त्वरितं गत्वा कथयैतन्निजप्रभोः । यथा सोऽप्येत्य दोर्दण्डविक्रमं दर्शयेन्मम ॥ १७६ ॥ बलिना बाहुबलिना दूत इत्थं निराकृतः । गत्वा भरतभूभत्रै तत्स्वरूपं न्यवेदयत् ॥ १७७ ॥ तच्छ्रुत्वा भरतो भम्भां प्रयाणस्याश्वताडयत् । चतुरङ्गचमूयुक्तः प्रतस्थे चानुजं प्रति ॥ १७८ ॥ रथैस्तुरङ्गमैरुष्टैरिणैर्वेसरैरपि । चलद्भिरचलापीठं, निर्वाहनमभूदिव ॥ १७९ ॥ चक्ररत्नानुगश्चक्रवर्ती तक्षशिलापुरः । सविधे शिबिरावासान् प्रविधाय स तस्थिवान् ॥ १८० ॥ अथ बाहुबलिक्ष्मापः कृतप्रस्थानमङ्गलः । यात्राढक्कां वादयित्वा चचाल भरतं प्रति ॥ १८१ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org