SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १०२ श्रीदानोपदेशमाला (गा.११) वीरोऽस्म्यहमिति त्वं चेदवजानासि नः प्रभुम् । तदा ससैन्यस्तत्सैन्यसमुद्रे मक्षु मक्ष्यसि ॥ १५८॥ यस्यैकेनापि सेनान्या कम्पिता ससुरा मही । तस्यापतन्तीं पृतनां निरोद्धं कः क्षमों भटः ॥ १५९ ॥ यस्य कोशं पूरयन्ति विभवैर्निधयो नव । चतुर्दश च रत्नानि, दृष्ट्वेन्द्रोऽपि स्पृहायते ॥ १६० ॥ रथवारणताणां, लक्षाश्चतुरशीतयः । ग्रामाणां च पदातीनां कोट्यः षण्णवतिप्रमाः ॥ १६१ ॥ यक्षषोडशसाहस्री तया द्विगुणिता नृपाः । नीवृतस्तत्प्रमाणाश्च ताभ्यो द्विगुणयोषितः ॥ १६२ ॥ द्वासप्ततिसहस्राणि पुराणां कोटयस्त्रयः ।। नियोगिनां हलानां च तत्तुल्यास्ते न कोऽधुना ॥ १६३ ॥ बिभ्रतोऽस्य करे चक्रं स्थास्नुः शक्रोऽपि नो पुरः । तत्कुबुद्धिं परित्यज्य राजन् ! श्रीभरतं भज ॥ १६४॥ इत्युक्त्वा विरते दूते, कल्पान्तक्षुब्धवार्धिवत् । उच्चस्वरमभाषिष्ट, राजा बाहुबलिर्बली ॥ १६५ ॥ साधु रे दूत! वक्तासि, यदित्थं वक्षि मत्पुरः । यादृशाः खलु नेतारस्तादृशाः सेवका अपि ॥ १६६॥ स ज्यायान् वयसा च बान्धवैरल्पवैभवैः । समेतैस्त्रपते तेन, न यामो भरतान्तिकम् ॥ १६७॥ बन्धूनां तातदत्तानि, साम्राज्यानि जिघृक्षया । अहो प्रकटिता प्रीतिः सुवेग! स्वामिना तव ॥ १६८ ॥ ज्यायसा बन्धुना सार्धं न योद्धमुचितं हि नः । मत्वेति राज्यं मुक्त्वा च कनिष्ठास्तातमन्वगुः ॥ १६९ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy