________________
१०१
सप्तक्षेत्रीदानविषये श्रीभरतचक्रिकथा देवास्मिन्नजिते जिग्ये किं त्वयेति निशम्य सः ।। दूतं सुवेगं धीसिन्धुं प्राहिणोद् बान्धवं प्रति ॥ १४६ ॥ सोऽपि स्यन्दनमारूढः परिवारपरीवृतः । वार्यमाणोऽप्यशकुनैश्चचाल बहली प्रति ॥ १४७ ॥ घोषान् ग्रामसमान् ग्रामान्नगरीसन्निभान् पुरः । स्व:पुरीजित्वरी: पश्यन्निति चेतस्यचिन्तयत् ॥ १४८॥ एतद्देशश्रियामग्रेऽस्माकं भूपस्य संपदः । तृणायन्ते ह्यतो बाहुबलिरेव नरेश्वरः ॥ १४९ ॥ आर्षभ्यारक्षितां तक्षशिलां श्रीशालिशालिताम् । पश्यन् दूतो ययौ राजकुलं राजन्यसंकुलम् ॥ १५० ॥ सभायामासनासीनं शक्रवद्विबुधाश्रितम् । सौनन्देयं नमश्चक्रे दूतो द्वा:स्थनिवेदितः ॥ १५१ ।। दूतं भरतभूभर्तुरुपवेश्योचितासने । सप्ताङ्गराज्यकुशलं भ्रातुः पप्रच्छ भूपतिः ॥ १५२ ॥ दूतोऽपि तं प्रणम्याह राजन्! भरतचक्रिणः । कुतो भीर्विद्यते तस्य त्वादृशो यस्य बान्धवः ॥ १५३ ।। षष्टिवर्षसहस्रेण कृत्वा दिग्जयमार्षभिः । विनीतामागतो भूपैरभिषिक्तः सवासवैः ॥ १५४॥ स द्वादशाब्दिके राज्याभिषेके बान्धवान्निजान् । पश्यन्ननागतान् प्रीत्याह्वातुं प्रेषीत्तरां नरान् ॥ १५५ ॥ केनापि हेतुना तेऽष्टानवतिश्चक्रिबान्धवाः । भरतं नाययुः किन्तु तातान्ते जगृहुव्रतम् ॥ १५६ ॥ तदेहि देव! सेवाभिः प्रमोदय निजाग्रजम् । पिशुनानां प्रवेशश्च युवयोर्मा स्म भूत् क्वचित् ॥ १५७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org