________________
१००
चेदाज्ञा तातपादानां, तदा तेन समं वयम् । कुर्मो रणाङ्गणं यस्मान्मार्गोऽयं धैर्यशालिनाम् ॥ १३४॥ ततस्तानृषभस्वामी, पुत्रानाह महाशयाः ! | समं भावारिवारण, कुरुध्वं युद्धमुद्धतम् ॥ १३५ ॥ येन वो विश्वविश्वानामैश्वर्यं जायतेऽचिरम् । अतो विनश्वरं राज्यं, त्याज्यं स्वहितहेतवे ॥ १३६॥ इत्यर्हद्वाक्यमाकर्ण्य रङ्गत्संवेगवेगतः । तेऽष्टानवतिसोदर्यास्तातान्ते जगृहुर्व्रतम् ॥ १३७ ॥ असिधाराव्रतमिव पालयन्तो महाव्रतम् । घातिकर्मक्षयात्प्रापुः केवलं वृषभाङ्गजाः ॥ १३८ ॥ अहो धैर्यमहो सत्त्वमहो संवेगरङ्गता ।
इति दूताश्चिन्तयन्तस्तद्वृत्तं स्वामिने जगुः ॥ १३९॥ सभायां पुनरन्येद्युरासीनो भरतेश्वरः ।
श्रीसुषेणेन सेनान्या, प्रणिपत्येत्यभाष्यत ॥ १४० ॥ षट्खण्डभरतक्षेत्रे, जितेऽपि भवता विभो ! । केनापि हेतुनाद्यापि चक्रं नैत्यायुधालयम् ॥ ४१ ॥ भरतः प्राह किं सोऽपि, भरतेऽद्यापि विद्यते । वीराग्रणीर्मदीयाज्ञां यो न धत्ते स्वमूर्धनि ॥ १४२ ॥ सेनान्या पुनरप्यूचे, देव! सर्वेऽपि पार्थिवाः । त्वया विनिर्जिताः कामदेवेनेवेह देहिनः ॥ १४३ ॥ किन्त्वेको वृषभस्वामिनन्दनोऽस्त्यनुजस्तव । बहलीशो बाहुबलिः स्वबाहुबलगर्वितः ॥ १४४ ॥ यस्य प्रचण्डदोर्दण्डचण्डतां वीक्ष्य वैरिषु । धुतं न स्वशिरं कैः कैर्देवदानवमानवैः ॥ १४५ ॥
Jain Education International
श्रीदानोपदेशमाला (गा. ११)
"
For Personal & Private Use Only
www.jainelibrary.org