________________
सप्तक्षेत्रीदानविषये श्रीभरतचक्रिकथा
नृपः सकोपस्तान् भृत्यानूचे किं रे मदोकसि ।
धान्यादि सर्वथा नष्टं, यदीदृग् दृश्यते त्वियम् ॥ १२२॥ युग्मम्॥ ते प्रणत्योचिरे यूयं यदादि प्रस्थिता इतः । तदादि सुन्दर्याचाम्लादितपः कर्तुमुद्यता ॥ १२३॥ तस्मादियं कृशाङ्ग्यासीदित्युक्ते तैः प्रजाप्रभुम् । समेत्य सुन्दरी रङ्गत्संवेगा श्राग् व्यजिज्ञपत् ॥ १२४॥ भ्रातः ! स्याच्चेत्तवादेशः स्वीकुर्वे चरणं तदा । तेनाप्यसावनुज्ञाता तातमूले व्रतं ललौ ॥ १२५ ॥ एकदा संसदासीनो भरतः स्वान्नियोगिनः । प्रोचे मदभिषेकार्थं, के के भूपाः समैयरुः ॥ १२६ ॥ तैरूचै सोदरान्मुक्त्वा सर्वेऽप्यत्रागता इति । श्रुत्वाष्टानवतिभ्रात्रर्थं दूतान् प्राहिणोन्नृपः ॥ १२७॥ यदि राज्यश्रिया कार्यं श्रयध्वं भरतं तदा दूतैरितीरितास्तेऽपि पर्यालोच्यावदन्निदम् ॥ १२८ ॥ राज्यं विभज्य तातेन दत्तं नो भरतस्य च । सेव्यमानः किमस्माकं सोऽधिकाय भविष्यति ॥ १२९ ॥ न सेवां न च संग्रामं तेनामा कुर्महे वयम् । तातादेशं विनेत्युक्त्वा ययुस्ते वृषभान्तिकम् ॥ १३०॥
अमा-सह ।
जिनं विनम्य ते मूर्ध्नि घटिताञ्जलिकुड्मलाः । स्तुतिं विधाय विज्ञप्तिं चक्रुर्वक्रेतराशयाः ॥ १३१॥ दीक्षायाः समये तातपादै राज्यानि यानि वः दत्तानि तानि भरतोऽस्मत्त आच्छेत्तुमिच्छति ॥ १३२ ॥ तात! त्वदङ्गजीभूय, वयं क्लीबा इवाधुना । भरतस्य कथं सेवां, कुर्महे मानमर्दिनीम् ॥ १३३॥
Jain Education International
For Personal & Private Use Only
९९
www.jainelibrary.org