________________
श्रीदानोपदेशमाला (गा.११) ततो म्लेच्छाः प्रभग्नेच्छा हयरत्नाद्युपायनम् । गृहीत्वा भरतं भेजुर्ग्रहा इव दिनेश्वरम् ॥ ८६॥ भरतोऽप्यात्मसत्कृत्य, तान् सत्कृत्य विसृज्य च । साधयामास सेनान्या सिन्धोरुत्तरनिष्कुटम् ॥ ८७ ॥ ततश्चक्राध्वगश्चक्री द्राग् क्षुद्रहिमवद्रेिः ।। नितम्बे दक्षिणे सैन्यमावास्य व्यधिताष्टमम् ॥ ८८॥ चतुर्थेऽह्नि रथारूढः स क्षुद्रहिमवद्गिरिम् । त्रिर्वारं स्यन्दनाग्रेण, ताडयामास पार्थिवः ॥ ८९॥ हिमाचलकुमाराय प्रहितस्तेन सायकः । द्वासप्ततिं योजनानि व्यतीत्याग्रेऽस्य सोऽपतत् ॥ ९० ॥ तं नामलाञ्छितं बाणं, वीक्ष्योपायनसंयुतः । स क्षुद्रहिमवन्नाथः पृथिवीनाथमभ्यगात् ॥ ९१ ।। नत्वा हृदाम्भो-देवद्रुसुमदाम-महौषधीः । गोशीर्षचन्दनं बाहुरक्षौ चादान्महीभुजे ॥ ९२ ॥ अहं ते सेवकोऽस्मीति, ब्रुवन् सत्कृत्य भूभुजा । स व्यसर्जि स्वयं राजर्षभकूटमुपागमत् ॥ ९३ ॥ तं त्रिर्वारं रथाग्रेणाहत्यादाय च काकिणीम् । तत्पूर्वकटके नाम, स्वं लिलेख जिगीषुराट् ॥ ९४॥ ततो व्यावृत्य कटकं, समेत्य धरणीश्वरः। चकाराष्टाह्निकापूर्वं, पारणं कारणं श्रियः ॥ ९५ ॥ अथ चक्रानुगश्चक्री, प्राप्तो वैसढ्यपर्वतम् । तदीयोत्तरगे वप्रे, निजं सैन्यं न्यवेशयत् ॥ ९६ ॥ राज्ञा स्वाह्वाङ्कितं बाणं, प्रेषितं वीक्ष्य खेचरौ । श्रीनमिविनमी योद्धं प्रतस्थाते बलान्वितौ ॥ ९७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org