________________
सप्तक्षेत्रीदानविषये श्रीभरतचक्रिकथा
यद्यप्यजय्यः सोऽस्माभिस्तथापि भवदाग्रहात् । तस्योपसर्गं कर्त्तार इत्युक्त्वा ते तिरोऽभवन् ॥ ७४ ॥ ततो मेघमुखा देवा ऐन्द्रजालिकवत्क्षणात् । विकृत्य वारिदं चक्रभृच्चक्रमुदवेजयन् ॥ ७५ ॥ ते धाराधरधाराभिराकुलाः पृतनाजनाः । प्लाव्यामहे वयं वार्भिरिति पूच्चक्रुरीश्वरम् ॥ ७६ ॥ राजाप्यरिष्टवृष्टिं तां विभाव्य शिबिरं निजम् । संस्थाप्य चर्मरले तदूर्ध्वं छत्रमताडयत् ॥ ७७॥ छत्रदण्डोपरि ध्वान्तध्वंसाय ध्वान्तशत्रुभम् । ज्योतिर्नूनं मणीरत्नं, विशामीशो न्यवेशयत् ॥ ७८ ॥ चर्मरत्ने प्रातरुप्ता येऽन्नवल्लिद्रुमादयः । सायं तेषां फलैः सैन्यं, गृहिरत्नमभोजयत् ॥ ७९ ॥ कल्पान्तकालकल्पान्तवृष्टिसृष्टिं वितन्वताम् । तेषां मेघकुमाराणां सप्तघस्त्री व्यतीयुषी ॥ ८० ॥ केऽमी दुराशयाः क्षुद्रोपद्रवं कर्तुमुद्यताः । भरतस्येदृशं भावं, विभाव्य बलशालिनी ॥ ८१ ॥
यक्षषोडशसाहस्री, सदा संनिहिता प्रभोः । संनह्य चलिता जेतुं वृष्टिकृद्दैवतं प्रति ॥ ८२ ॥ युग्मम् ॥ रे रे दुराशयाः ! केऽयं, संरम्भो निजघातकृत् । भवद्भिर्विहितश्चक्रवर्तिनि द्वेषिपेषिणि ॥ ८३ ॥ चेदस्ति जीवितव्याशा, तदा भरतचक्रिणम् । सुरासुरनराजेयं, यूयमाश्रयत द्रुतम् ॥ ८४ ॥ इत्याकर्ण्य भयान्मेघमुखाः संहृत्य वारिदम् । किरातानां पुरश्चक्रिसेवामुक्त्वा तिरोदधुः ॥ ८५ ॥
Jain Education International
For Personal & Private Use Only
९५
www.jainelibrary.org