SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ९४ श्रीदानोपदेशमाला (गा. ११) भिल्लमल्लैर्महाशल्यैराहत्य त्रासिता भटाः 1 रक्ष रक्षेति जल्पन्तो भरतेशमुपाययुः ॥ ६२॥ कोपाटोपोत्कटश्चक्री यावदुत्तिष्ठते युधे । तावत्सुषेणसेनानीर्नत्वा नाथं व्यजिज्ञपत् ॥ ६३॥ स्वामिन्नेषु किरातेषु कोऽयं वो रणसंभ्रमः । मादृशोऽपि भवत्पादरेणुरेतान् विजेष्यते ॥ ६४॥ इति ब्रुवाणो भरतानुज्ञातो ज्ञातपौरुषः । सुषेणोऽसिकरो वाजिरत्नारूढोऽभि तानगात् ॥ ६५॥ तैः किरातैः समं युद्धं कुर्वाणः शिबिरेश्वरः 1 केषांचिच्चूर्णयाञ्चक्रे, सहसारथिकान् रथान् ॥ ६६॥ केषांचिद् त्रासयामास तुरगान् हरिणानिव । केषांचित्खण्डशोऽकार्षीद्वारणानंहिपानिव ॥ ६७॥ केषांचिदच्छिनच्छस्त्रश्रेणीं तृणमिवोच्चकैः । केषांचिच्च शिरांसीलापीठेऽलोठयदायुधैः ॥ ६८ ॥ कुलकम् ॥ इत्थं सुषेणसेनान्या कान्दिशीकत्वमापिताः । प्रपलाय्याखिला म्लेच्छा अगच्छन् सिन्धुरोधसि ॥ ६९ ॥ ते तत्रैकत्र मिलिताः पर्यालोच्य परस्परम् । देवान् मेघमुखांश्चित्ते कृत्वाष्टमतपो व्यधुः ॥ ७० ॥ ते तेन तपसाकृष्टा आविर्भूयोचिरेतराम् । किं वः प्रयोजनं ब्रूतेत्युक्तास्ते तान् समालपन् ॥ ७१ ॥ पूर्वं केनाप्यनाक्रान्ते, देशे योऽस्त्यरिरागतः । तथा यूयं कुरुध्वंस, यथा निर्गत्य गच्छति ॥ ७२ ॥ किरातैरिति विज्ञप्ता देवा मेघमुखा जगुः । भरतश्चक्रवर्त्येष सुरासुरनराजितः ॥ ७३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy