________________
सप्तक्षेत्रीदानविषये श्रीभरतचक्रिकथा विद्यादृप्तौ खेचरेन्द्रावाह्वयेतां नृपं युधे । सोऽपि द्वादशवार्षिक्याजैषीत्तौ रणलीलया ॥ ९८॥ नृपेण स्वं जितं ज्ञात्वा, तावागत्य विनत्य च । भरतं नमिविनमी, प्रक्रान्तौ स्तोतुमक्रमम् ॥ ९९॥ राजन्नादौ यथा नाथे, वृषभोऽभूत्तथाधुना । त्वमीशो नो यतः सेवा, न हिये स्वामिनन्दने (? नः) ।। १०० ।। नमिर्विद्याधराधीशो रत्नानि विनमिः पुनः । स्वां सुभद्राभिधां पुत्री स्त्रीरत्नं चक्रिणे ददौ ॥ १०१ ।। तेनापि सत्कृतौ तौ च राज्यं दत्त्वा स्वपुत्रयोः । संवेगाद् ऋषभस्वामिपार्श्वे जगृहतुव॒तम् ॥ १०२॥ अथानुचक्रं चक्रीन्द्रो व्रजन् मन्दाकिनीतटे । गङ्गादेवीगृहाभ्यणे, स्थापयामासिवांश्चमूम् ॥ १०३ ॥ सिन्धुवज्जाह्नवीं तीा, सुषेणो भरताज्ञया । साधयित्वाययौ सैन्यं, गङ्गामुत्तरनिष्कुटम् ॥ १०४॥ अथाष्टमतपस्तुष्टा, गङ्गा सिंहासनद्वयम् । साष्टोत्तररत्नकुम्भसहस्रं चक्रिणे ददौ ॥ १०५ ॥ तं सस्मरा स्मराकारं निरीक्ष्य भरतेश्वरम् । भोगार्थं भोगिनी भोगगेहे प्रार्थ्यानयन्नदी ॥ १०६ ॥ गङ्गादेव्या समं राजा सलीलं विलसन्नलम् । एकाहमिव वर्षाणां सहस्रं सोऽत्यवाहयत् ॥ १०७ ॥ तां कथंचिदनुज्ञाप्य चलितः कलितो बलैः । खण्डप्रपातां स प्रापदखण्डितपराक्रमः ॥ १०८॥ तदीशस्तपसाकृष्टो, नाट्यमालाह्वयः सुरः । राज्ञे ददावलङ्कारान् प्रजेशो व्यसृजच्च तम् ॥ १०९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org