________________
सप्तक्षेत्रीदानविषये श्रीभरतचक्रिकथा मागधेशस्तमालोक्य कोपाटोपादवोचत ।।
आः कस्य शमनो रुष्टो योऽत्रेषु प्राहिणोत्कुधीः ॥ २६॥ तद् भोः त्वरध्वं युद्धाय वीराः! पौरुषशालिनः! । यथा श्राक् छिद्यते तस्य शिरः कमलनालवत् ॥ २७॥ यावदेवं ब्रुवन् योद्धमासनादयमुत्थितः । तावत्तत्सचिवो बाणेऽक्षरमालामवाचयत् ॥ २८॥ जीविताशास्ति चेद्वस्तद् भरतस्याद्यचक्रिणः । सेवां कुर्वीत सर्वस्वदानेनेत्यादिशत्ययम् ॥ २९॥ तदक्षरार्थं विज्ञाय ज्ञानेनावधिनाथ सः । स्वामिने दर्शयन् बाणमेवमाह स्म धीसखः ॥ ३०॥ देवाभूद् भरतक्षेत्रे ऋषभस्वामिनन्दनः । भरतः प्रथमश्चक्री तस्मात्सेव्योऽयमादरात् ॥ ३१ ॥ ततो मागधतीर्थेशो मन्त्रिवाक्योपशान्तरुट् । सोपदं शरमादाय समागाद् भरतान्तिकम् ॥ ३२ ॥ नत्वा विज्ञपयामास, भरतं मगधेश्वरः । अतः परं त्वमीशो मे त्वद्दासोऽस्मि प्रसीद तत् ॥ ३३ ॥ इत्युदित्वार्पयाञ्चक्रे, चक्रिणोऽसौ सुरः शरम् । मौलिकुण्डलतीर्थाम्भोयुतं सोऽप्यग्रहीदमुम् ॥ ३४॥ चक्री सत्कृत्य तं देवं व्यावृत्यागान्निजां चमूम् । तत्रासौ पारणं कृत्वाष्टाहिकामहमातनोत् ॥ ३५ ॥ चक्रवर्त्यनया युक्त्या याम्यां श्रीवरदामपम् । प्रतीच्यां च प्रभासेशं निजाज्ञावशगौ व्यधात् ॥ ३६॥ ततश्चक्रानुगश्चक्री, सिन्धुसिन्धुतटं ययौ । तद्देवीं स्ववशीचक्रेऽष्टमेन तपसा स च ॥ ३७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org