________________
सप्तक्षेत्रीदानविषये श्रीभरतचक्रिकथा । इमां तद्गिरमाकर्ण्य प्रमोदभरनिर्भरः । प्रीतिदानं सुवर्णस्य कोटीस्तस्मै ददौ नृपः ॥ ३॥ चक्रालोकनसोत्कण्ठस्तमग्रेकृत्य पार्थिवः । अगादायुधशालायां, गुहायामिव केसरी ॥ ४॥ तत्र चक्रं विलोक्योच्चैरनंसीदीश्वरो विशाम् । वाससा विरजीचक्रे स्नपयामास चाम्भसा ॥ ५॥ गोशीर्षचन्दनै राजारीरचत् स्थासकावलीः । धूपैः पुष्पैरलङ्कारैर्वस्त्रैश्च तमपूपुजत् ॥ ६॥ स्थासकावली:-कुङ्कुमहस्तस्थापनापङ्क्तीः । तत्पुरस्तन्दुलै रूप्यनिर्वृत्तैरष्टमङ्गलीम् । लिलेख दिक्षु स्वयशःप्रशस्तिमिव पार्थिवः ॥ ७॥ तत्रार्षभिः कृतावासो, दिनान्यष्टौ महोत्सवम् । पूजापूर्वं वृतः पौरैश्चक्रे चक्रस्य चक्रभृत् ॥ ८॥ तत्फलं दिग्जयं जानन्, भूजानिर्जग्मिवान् गृहम् । स तत्र स्नापितो वारस्त्रीभिः सुरभिवारिभिः ॥ ९॥ कृतमङ्गलनेपथ्यः सर्वभूषणभूषितः । चान्दनं तिलकं भाले बिभ्रच्छत्रं च मूर्धनि ॥ १० ॥ चामराभ्यां वीज्यमानो, बन्दिक्लृप्तजयारवः । पूरयन् रोदसीरन्ध्र वाद्यद्वादिनिस्वनैः ॥ ११॥ तुरङ्गैर्वायुरंहोभिर्विन्ध्याचलनिभैरिभैः । रथैर्महारथोपेतैः पत्तिभिश्चारुशक्तिभिः ॥ १२॥ षोडशसहस्रसंख्यैर्यक्षैश्च परिवारितः । भरतस्तुरगारूढश्चचालैन्द्रीदिशं प्रति ॥ १३ ॥ चतुर्भिः कलापकम् ॥ *सिद्धहेममते अररचत् रूपं भवति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org