SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ८४ ततः स्वाम्यङ्गसंस्कारहेतवे हरिचन्दनैः । ऐन्द्रयामिन्द्रश्चितां वृत्तां रचयाञ्चकृवान् सुरैः ॥ ९०९ ॥ इक्ष्वाकूणां चितां त्र्यस्त्रामृषीणां दक्षिणादिशि । सुराश्चक्रुः पश्चिमायां चान्येषां चतुरस्त्रिकाम् ॥ ९१० ॥ दक्षिणादिशि-दक्षिणाशब्दो दक्षिणदिशाद्योतकमव्ययम् । सहस्रवाह्याः शिबिकास्तिस्रो रत्नैः सुरा व्यधुः । प्रभोरिक्ष्वाकुवंश्यानामन्यर्षीणां च हेतवे ॥ ९११ ॥ निवेश्य तासु वर्ष्माणि, जिनादीनामनुक्रमात् । नीत्वा चितासु संस्कारं वह्निदेवैरकारयन् ॥ ९१२॥ यावद् धातुषु दग्धेषु मुक्त्वास्थीनि चितानलैः । तावद् व्यध्यापयन्मेघकुमारास्ताः पयोऽम्बुभिः ॥ ९९३ ॥ दंष्ट्रादीन्यस्थिवृन्दानि यथावदमरेश्वराः । श्रीदानोपदेशमाला (गा. ६. ) लात्वा स्वस्वसभास्तम्भे, श्रेयसोऽर्थं न्यवेशयन् ॥ ९९४ ॥ चितास्थानत्रयरत्नस्तूपानि त्रिदशेश्वराः । नन्दीश्वरेऽष्टाह्निकां च कृत्वा स्वां स्वां दिवं ययुः ॥ ९९५ ॥ भरतोऽपि परिवारपरीतो वृषभप्रभुम् । पावनै स्तवनै स्तुत्वा विनीतां नगरीमगात् ॥ ९१६॥ 'इत्थं प्राग्धनसार्थवाहजनने सत्पात्रदानं घृतैः, कृत्वा बोधितरोः सुमानि दिविषद्भूपालसौख्यानि च । भुक्त्वा मुक्तिफलं यथार्जि वृषभाङ्केणार्हता तत्तथा, कर्त्तव्यं कृतिभिः सदैव मुदितैर्निश्रेयस श्रेयसे ॥ ९१७॥ (शार्दूलविक्रीडितम्) इति श्रीरुद्रपल्लीयगच्छशृङ्गारहार श्रीसंघतिलकसूरिशिष्य श्रीदेवेन्द्रसूरिविरचितायां श्रीदानोपदेशमालावृत्तौ सत्पात्रघृतदानविषये श्रीयुगादिदेवचरित्रं समाप्तम् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy