SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् एतस्या अवसर्पिण्यास्तृतीयस्यारकस्य तु । एकोननवतिपक्षसङ्ख्ये शेषेऽवशेषिणि ॥ ८९७ ॥ माघकृष्णत्रयोदश्यां, पूर्वाह्नेऽ भीचिगे विधौ । पर्यङ्कासनमासीन: शुक्लध्यानपरायणः ॥ ८९८ ॥ प्रोन्मूल्याखिलकर्माणि, गजेन्द्र इव भूरुहः । युगादिदेवो निर्वाणनायिकानायकोऽजनि ॥ ८९९॥ कुलकम् ॥ ऋषीणां दशसहस्री, प्रपन्नानशनापि सा ।। केवलज्ञानमासाद्य सद्य: शिवमशिश्रियत् ॥ ९०० ॥ स्वामिनिर्वाणकल्याणसमये श्वभ्रिणामपि ।। अजायत क्षणं सौख्यं का कथान्यशरीरिणाम् ॥ ९०१ ॥ तातशोकसमाविष्टमानसो भरतेश्वरः । छिन्नमूलद्रुम इव पपात पृथिवीतले ॥ ९०२ ।। तद्विषादापनोदाय स्वयं सौधर्मनायकः । रुरोद रोदसीपूरं भरतं चान्वरोदयन् ॥ ९०३ ।। ततः प्रभृति लोकेऽपि प्राणिनां शोकसंभवे । प्रवृत्तो रोदनस्याध्वा दुःखशल्यविशल्यकः ॥ ९०४।। ततः संजातचैतन्यस्त्यक्त्वा धैर्यं स्वभावजम् । भूपालो विललापैवं भरतः करुणस्वरम् ॥ ९०५ ॥ हा तात! हा कृपासिन्धो! हा विश्वजनवत्सल! । मां विहाय भवाटव्यां, स्वयं मोक्षमसाधयः ॥ ९०६॥ तन्नाथ! मामनाथं द्रागानन्दपरया दृशा । विलोकयैकवेलं हि महान्तः करुणापराः ॥ ९०७ ॥ तातशोकवशादेवं विलपन्तमिलापतिम् । कथंचिद् बोधयाञ्चक्रे शक्रो जल्पन्ननित्यताम् ॥ ९०८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy