________________
८२
श्रीदानोपदेशमाला (गा. ६.) वादिनां च मन:पर्यायिणां षट्कशतान्विता । आसीद् द्वादशसाहस्री प्रभोः पञ्चाशता युता ॥ ८८५ ॥ व्यवहारं यथा पूर्वमस्थापयदिलातले । तथैवादिमतीर्थेश: श्रीमत्संघं चतुर्विधम् ॥ ८८६ ॥ प्रव्रज्यावसरात्पूर्वलक्षं स्वाम्यतिवाह्य सः । स्वमोक्षसमयं ज्ञात्वा प्रास्थिताष्टापदं प्रति ॥ ८८७ ।। मुनीनां दशसाहस्या वृतो वृषभलाञ्छनः । मुक्तिश्रीसौधनिश्रेणिमारोहत् स्फटिकाचलम् ॥ ८८८ ॥ चतुर्दशेन भक्तेन, पादपोपगमाह्वयम् । प्रपन्नोऽनशनं स्वामी, तत्र चारित्रिभिर्युतः ॥ ८८९ ॥ तथास्थितं जिनाधीशं, विलोक्याचलपालकाः । समेत्य भरतेशाय, शीघ्रमेवं न्यवेदयन् ॥ ८९० ॥ सोऽप्याहारपरीहारमवगत्य जगद्गुरोः । सशल्य इव शोकेन, खेदमन्वभवन्नृपः ॥ ८९१ ।। दुःखाभिभूतो भरतः सान्त:पुरपरिच्छदः । प्रतस्थे पादचारेण त्वरयाष्टापदं प्रति ॥ ८९२॥ . तत्र शोकप्रमोदाभ्यां व्याकीर्णो भरतेश्वरः । ईक्षाञ्चक्रे तातपादान् पर्यङ्कासनसंस्थितान् ॥ ८९३ ।। तातं प्रदक्षिणीकृत्य नमस्कृत्य च भूपतिः । सेवते स्म समीपस्थः प्रतिच्छन्द इव प्रभोः ॥ ८९४॥ अथासनप्रकम्पेन ज्ञानेनावधिना तथा । स्वामिनिर्वाणकल्याणं ज्ञात्वैयुस्तत्र वासवाः ॥ ८९५ ॥ तथाभूतं विभुं वीक्ष्य कृत्वा तिस्रः प्रदक्षिणाः । नत्वा चन्द्राः स्थिता दुःखादालेख्यलिखिता इव ॥ ८९६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org