SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् स्वाम्याज्ञां मुकुटीकृत्य मूर्ध्नि तस्मिन् स्थिते सति । युगादिदेवोऽन्यत्रागात् प्रतिबोधयितुं जनान् ॥ ८७३ ॥ ततोऽसौ सपरीवारः पुण्डरीकगणेश्वरः । चैत्रराकादिने शुक्लध्यानी केवलमासदत् ॥ ८७४ ॥ प्रान्ते स्थितः सितध्याने रुद्धयोगो महाशयः 1 मुमुक्षुभिर्युतः क्षीणकर्मा मोक्षमवाप सः ॥ ८७५ ॥ दिवो देवाः समागत्य निर्वाणगमनोत्सवम् । स्वामिनः पुण्डरीकस्य व्रतिनामपि चक्रिरे ॥ ८७६ ॥ यदत्राद्रौ पुण्डरीको मुक्तिमार्गमसाधयत् । ततोऽस्य पुण्डरीकेति नामाभूद् भुवि विश्रुतः ॥ ८७७॥ तत्र श्रीभरतः शैले भगवत्पुण्डरीकयोः । प्रतिमासहितं रत्नमयं चैत्यमकारयत् ॥ ८७८ ॥ नानाविधेषु देशेषु गोसहस्त्रैः प्रबोधयन् । सच्चक्रान् विजहार श्रीनाभेयो भानुमानिव ॥ ८७९॥ स्वामिनः केवलज्ञानादारभ्य मुनयोऽभवन् । चतुरशीतिसहस्राः साध्व्यो लक्षत्रयं तथा ॥ ८८० ॥ लक्षत्रयं समं पञ्चसहस्रैः श्रावकोत्तमाः । श्राद्ध्यः सार्धं पञ्चलक्षाश्चत्वारिंशच्छतान्विताः ॥ ८८१ ॥ चत्वारि तु सहस्राणि, सप्तशत्या युतानि च । पञ्चाशताधिकान्यासन् श्रीचतुर्दशपूर्विणाम् ॥ ८८२॥ सहस्राणि नवाभूवन्नवधिज्ञानशालिनाम् । विंशतिसहस्रसङ्ख्याः, केवलज्ञानिनस्तथा ॥ ८८३ ॥ सहस्रविंशतिः षट्कशताढ्या वैक्रियश्रियाम् । द्वाविंशतिसहस्राण्यनुत्तरस्वर्गगामिणाम् ॥ ८८४ ॥ सपञ्चाशत्सहस्रमिति संगतं भाति । * Jain Education International For Personal & Private Use Only ८१ www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy