________________
श्रीदानोपदेशमाला (गा. ६.) ततः श्रीऋषभसेननामा गणधराग्रणीः । उपविश्य विभोः पादपीठे व्याख्यानमातनोत् ॥ ८६१ ॥ व्याख्यानाद्विरते तस्मिन् सुरासुरनरेश्वराः । प्रभुं प्रणिपनीपत्य स्वं स्वं स्थानमगुर्मुदा ॥ ८६२ ॥ गोमुखाख्यो महायक्षो दक्षः संघस्य रक्षणे । श्रीमत्यप्रतिचक्रा चाभूतां शासनदेवते ॥ ८६३ ।। अथातिशयवृन्देन प्रातीहार्याष्टकेन च । विस्मयाम्भोनिधौ विश्वजनचेतांसि मजयन् ॥ ८६४ ।। साधुभिः साधुभिः साध्वीराजिभिश्च विराजितः । प्रभुः प्रबोधयन् भव्यान्, प्राप शत्रुञ्जयाचलम् ॥ ८६५ ॥ युग्मम् ॥ तत्र धुसद्भिः समवसरणे विहिते विभुः । सिंहासनमलङ्कृत्य कृत्यविद् देशनां व्यधात् ॥ ८६६ ॥ संपूर्णायां तु पौरुष्यां देवच्छन्दं गतेऽर्हति । पुण्डरीकः प्रभोः पादपीठस्थो देशनां व्यधात् ॥ ८६७ ।। द्वितीयस्यां तु पौरुष्यां व्यतीयुष्यां गणेश्वरः । देशनां व्यसृजद्यस्मात्, समयज्ञा महर्षयः ॥ ८६८ ॥ विजिहीर्षुस्ततोऽन्येधुर्भगवान्नाभिनन्दनः । पुण्डरीकं गणाधीशमूचे मधुकिरा गिरा ॥ ८६९ ॥ वत्स! स्वच्छमते! तिष्ठ, पञ्चकोटिमुमुक्षुयुक् । शत्रुञ्जये महातीर्थे, स्वर्मणाविव दुर्लभे ॥ ८७० ॥ क्षेत्रानुभावतोऽमुष्य, परिवारवृतस्य ते । केवलज्ञानमचिराद् भविष्यति विनिश्चितम् ॥ ८७१ ।। तवात्र शैले शैलेशीध्यानमाश्रयतः सतः । परिवारपरीतस्य भावी निर्वृतिसंगमः ॥ ८७२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org