________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् स्वाम्युत्थायर्षभसेनादीनां गणभृतां क्रमात् । चूर्णक्षेपं प्रकुर्वाणः सूत्रार्थतद्वयेन तु ॥ ८४९ ।। गुणैर्द्रव्यैश्च पर्यायैर्नयैः सर्वैरपि स्वयम् । गणानुज्ञामनुयोगानुज्ञां च प्रददे मुदा ॥ ८५०॥ युगलम् ॥ तेषामुपरि गीर्वाणा मानवा वनिता अपि । वासक्षेपं स्म कुर्वन्ति, गीतवादित्रपूर्वकम् ॥ ८५१॥ पुरो गणधरास्तस्थुर्योजिताञ्जलिकुड्मलाः । विभोर्वचांसि गृह्णन्तो मेघाम्भश्चातका इव ॥ ८५२ ।। सिंहासनमथारुह्य पूर्ववत् प्राङ्मुखः प्रभुः । अनुशिष्टिमयीं व्याख्यां तदने विदधे पुनः ॥ ८५३ ।। व्यतीतायां तु पौरुष्यां कलमैस्तन्दुलैः कृतः । चतुष्प्रस्थमितः स्थालसंस्थो गन्धादिवासितः ॥ ८५४॥ प्रधानपुरुषोपात्तो भरतेश्वरकारितः । अन्वीयमानो ललनाजनैर्गीतिपुरस्सरम् ॥ ८५५ ।। कलितो दुन्दुभिध्वनैः पौरैरपि परीवृतः । बलिः समवसरणं पूर्वद्वारा समाविशत् ॥ ८५६॥ युग्मम् ॥ प्रभुं प्रदक्षिणीकृत्य क्षिप्त ऊर्ध्वं बलिः पुरः ।। निपतन्नन्तरालेऽपि तदर्थो जगृहे सुरैः ॥ ८५७ ॥ तस्य भूमिगतस्यार्धाद) श्रीभरतोऽग्रहीत् । विभागीकृत्य शेषश्च शेषेवोपाददे नरैः ॥ ८५८॥ प्रागुत्पन्ना गदाः सर्वे क्षीयन्तेऽभिनवाः पुनः । षण्मासान्नैव जायन्ते तस्य माहात्म्यतो बलेः ॥ ८५९ ॥ सिंहासनादथोत्थाय भगवानुत्तराध्वना । । विश्रामाय सुरैः सार्धं देवच्छन्दमशिश्रियत् ॥ ८६० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org