________________
७८
श्रीदानोपदेशमाला (गा. ६.) मामस्माद् भवपाथोधेरापद्यादोऽतिदारुणात् । दीक्षातर्याः प्रदानेन, नाथ! तारय तारय ॥ ८३८ ॥ एवमस्मै ब्रुवाणाय, पञ्चशत्यैकहीनया । सप्तशत्या च भरतचक्रिणः पुत्रपौत्रयोः ॥ ८३९ ॥ सहिताय हिते मार्गे निरताय रतोज्झिने । स्वहस्तेन जिनो दीक्षां प्रददे मुक्तिदूतिकाम् ॥ ८४० ॥ युग्मम्॥ स्वामिनः केवलज्ञानोत्सवं वीक्ष्यामरैः कृतम् । मरीचिरपि चारित्रं जग्राह भरताङ्गभूः ॥ ८४१ ॥ भरतेन विसृष्टाथ, ब्रायपि व्रतमग्रहीत् । सुन्दरी श्राविकाद्याभूद्, भरतक्षितिपाज्ञया ॥ ८४२ ।। सम्यक्त्वमूलं भरतः श्रावकत्वं जनैः सह । उपादत्तापरे दीक्षां जिनान्ते च प्रपेदिरे ॥ ८४३ ।। त्यक्त्वा कच्छमहाकच्छावन्ये राजन्यतापसाः ।। समेत्य स्वामिपादान्ते प्रव्रज्यां जगृहुः पुनः ॥ ८४४ ॥ चतुरशीतिसंख्यानां प्रज्ञातिशयशालिनाम् ।। श्रीमतामृषभसेनप्रमुखाणां महात्मनाम् ॥ ८४५ ॥ उत्पादविगमध्रौव्यसंयुतां संयतेश्वरः । पदत्रयीमुपादिक्षद् भवाम्भोधौ तरीमिव ॥ ८४६ ॥ युग्मम् ॥ ते त्रिपद्यनुसारेणैकादशाङ्गी सपूर्विकाम् । क्षणाद्विरचयाञ्चक्रुर्मुनयो नयशालिनः ॥ ८४७ ॥ अथ प्रथमकल्पेन्द्रो वृत्तो देवैर्जिनान्तिकम् । करे कृत्वा दिव्यचूर्णपूर्ण स्थालमुपानयत् ॥ ८४८ ॥ * एकादशाङ्गीमिति चिन्त्यम् । द्वादशाङ्गीमिति संगतं भाति. तुलना-त्रिषष्टिशलाकापुरुषचरितेस चतुर्दशपूर्वाणि द्वादशाङ्गानि ते क्रमात् । ततो विरचयामासुस्तत्रिपद्यनुसारतः १।३।६६२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org