________________
:
:
सुषमःषमा, (४) मसुषमा, (५) दुषमा, (६) पमદુષમારૂપ છ આરાઓ હોય છે ઉત્સર્પિણમાં, પશ્ચાનુપૂર્વીથીઉલ્ટા કમથી તે જ છ આરાઓ હેય છે. (૬૦ થી ૩ + २५४ थी २५७)
गतिद्वारे-सामायिकछेदोपस्थापनीयौ मृत्वा देवगति यायाताम् । तत्रापि वैमानिक एव । तत्रापि जघन्यत: प्रथमदेवलोकमुत्कृष्टतस्त्वनुत्तरविमानं यावत् । विराधकश्वेधः कोऽपि भवनपतिः स्यात् । परिवारविशुद्धिको वैमानिक एव स्यात् । तत्रापि जघन्यतस्सोधर्मकल्प उत्कृष्टतस्सहस्त्रा. रकल्पे स्यात् । सूक्ष्मसंपरायोऽनुत्तरविमाने स्यात् । यथाख्यातसंयतो देवगतौ स्यान्चेत्तदाऽनुत्तरविमान एव स्यादथवा सिद्धिगति यायादिति ॥ ६४ ॥
सत्र सौधर्मशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकमहाशुक्रसहसाराऽऽनतपाणताऽऽरणाऽच्युतभेदेन द्वादशविधा देवलोका कल्पोपपनदेवानाम् । तदुपरि सुदर्शनसुप्रतिबद्धमनोरमसर्वभद्रविशालसुमनससौमनसपीतिकरादित्यभेदेन नव अवेयकाः । तदुपरि विजयवैजयन्तजयन्तापराजितसर्वार्थसिदभेदेन पश्चानुत्तराः । उभये कल्पातीतानाम् ॥६५॥
चन्द्रसूर्यग्रहनक्षत्रतारकाः पञ्च ज्योतिष्काः । पिशाचभूतयक्षराक्षसकिन्नर किम्पुरुपमहोरगगन्धर्वा अष्टविधा व्यन्तराः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org