________________
योगवार्तिकम
चित्तं हीति । स्वकार्यादवसः दर्यान्त कर्त्तव्यशन्यर्वन्ति तत्र हेतुः ख्यातीत्यादि । हि यस्माच्चित्तस्य व्यापारो विवेकख्यातिपर्यन्तः विवेकख्यातिनिष्पत्ती सत्यां प्रवर्त्तक पुरुषार्थासम्भवात् सा च विवेकख्यातिरूपा प्रज्ञा तत्संस्कारातिशयेनानिशमुत्पा पर वैराग्यजननद्वारेण समाप्यतइत्यर्थः । क्षीणवृत्तेरित्यादिसूत्रैः संप्रज्ञातस्य फलादिक्रमुक्तमिदानीमसंप्रज्ञातस्य फलादे : सूत्र प्रवर्त्तिष्यते । तत्सूत्रं प्रज्ञासंस्कारातिशयस्य पुनर्जन्मा हेतुत्वे हेत्वन्तरपरतया ऽवतारयति । किं चास्येति । अस्य प्रज्ञासंस्कारस्यान्यच्च फलं सर्ववृत्तितत्संस्कारयोनिरोधो भवतीति न पुनर्जन्म संभावनेत्यर्थः ।
तस्यापि निरोधे सर्वनिरोधान्निर्बाजः समाधिः ॥ ५१ ॥
पूर्वपूर्वसंप्रज्ञाते तावत्प्रज्ञेव निरुध्यते प्रज्ञासंस्कारस्य तु तानमात्रं भवति । एवं क्रमेण तु तस्यापि प्रज्ञाकृतसंस्कारस्याप्य संप्रज्ञातपरंपरया निरोधेऽत्यन्ताभिभवे नायमाने चरमासंप्रज्ञातो निर्बीजयोगस्य पराकाष्ठा भवत्य पुनर्व्युत्थानेत्यर्थः । सर्वनिरोधादितिसूत्रावयवेन निर्बीजत्वे हेतुरुक्तः । यतः प्रजा तत्संस्कारश्च सर्वोप्यत्यन्तं विलपितोऽतो निर्बीजः । दुःखबीजैः संस्कारादिभिः शन्य इत्यर्थः । पूर्वपूर्वा संप्रज्ञातव्य क्तिषु च क्रमेण बीजतानवाद्वाणं निर्बीजत्वमसंप्रज्ञातलक्षणे पूर्व भाष्यकृतोक्तमिति स्मर्त्तव्यं तथा च चरमासंप्रज्ञाते सर्वे प्रज्ञासंस्काराः क्षीयन्तइत्यतो न ते चित्तं साधिकारं कुर्वन्तीति भावः । एतेनासंप्रज्ञातपरंपरायाः प्रज्ञासंस्कारात्यन्तलयः फलं सूत्रेणे क्तं, सूत्रस्यस्यापि शब्दस्यार्थ भाष्यकारो व्याचष्टे । स न केवलमिति । स सामान्य निर्बीजयोगः न केवलं समाधिप्रज्ञाया विरोधी भावाभावरूपेण अपि तु क्रमेण प्रज्ञाक्कृतसंस्काराणामपि प्रतिबन्धी अत्यन्तमभिभावक इत्यर्थः । ननु यदि प्रज्ञाकृतसंस्काराणामप्यसंप्रज्ञातो बाधकस्तर्हि सकृदसंप्रज्ञातादेव सर्वसंस्कारबाधे व्युत्थानं कदापि कस्यापि न स्यादित्याशयेनाक्षिपति । कस्मादिति । परिहरति । निरोध इति । न निरोधः साक्षादेव प्रज्ञासंस्कारान् विलापयति किं तु निरोधपरंपराजन्या दृढतरः संस्कार एव प्रज्ञासंस्कारा
Jain Education International
८५
For Personal & Private Use Only
www.jainelibrary.org